________________
अभिसमयालङ्कारालोकः।
१५१ प्रत्यात्म दुःखसत्यानुभाविज्ञानमनाशवं येन दुःखदर्शनप्रहातव्यं कशं प्रजहाति । तदच्यते दुःखधर्मज्ञानक्षान्तिः । येन ज्ञानेन क्षान्त्यनन्तरं विमुक्तिं साक्षात्करोति तदच्यते दुःखधर्मज्ञानम् । दुःखधर्मज्ञानस्यानन्तरं दुःखे धर्मज्ञानशान्तौ दुःखधर्मज्ञाने चान्वय एष आर्यधर्माणामिति प्रत्यात्म यत्प्रत्यक्षानुभाविज्ञानमनाश्रवं तदुच्यते दःखान्वयज्ञानक्षान्तिः। येन ज्ञानेन तामन्वयज्ञानक्षान्तिमवधारयति तदुच्यते दुःखेऽन्वयज्ञानम् । एवमवशिष्टेधपि सत्येषु यथायोगं क्षान्तयो ज्ञानानि च वेदितव्यानौति षोडशक्षणिक एव दर्शनमार्गो युक्तः । पञ्चदशक्षणिकत्वे तु मार्गेऽन्वयज्ञानक्षान्तेरवधारणं न स्यात् । अदृष्टदर्शनाभावेनात्यो मार्गेऽन्वयज्ञानक्षणो न दर्शनमार्ग इति चेत्। यद्येवं दःखादिसत्यत्रयेऽप्यपूर्वदर्शनवैकल्यादन्वयज्ञानक्षणो न दर्शनमार्ग इति द्वादशक्षणिक एव स्यात्। न चैतदभ्युपगमनमिति यत्किञ्चिदेतत् । तथा चोक्तम् ।
क्षान्तिज्ञानक्षणैः सत्यं सत्यं प्रति चतुर्विधैः । मार्गज्ञतायां दृङ्मार्गः सानुशंसोऽयमुच्यते ॥ ११॥ इति तच धर्मज्ञानक्षान्त्या धर्मज्ञानेन च ग्राह्यावबोधः । अन्वयज्ञानक्षान्त्याऽन्वयज्ञानेन च ग्राहकावबोधः। सर्वेष्वेव शान्तिज्ञानेनिमित्तविहारी योगी वेदितव्यः। अविकलकारणस्य प्रहातुमशक्यत्वादुःखदर्शनमहातव्यकाले समुदयः प्रहौणः। अत एव निरोधः सक्षात्कृतस्तस्य चान्यथानुपपत्त्या मार्गो भावितः। समुदयादिषप्येवमित्येवंकार्याभिसमयादेकक्षणाभिसमयो महायाने दर्शनमार्गों