________________
१५०
द्वितीयपरिवर्तः ।
कारैः शिक्षणमि"त्येवं सर्वधर्मालम्बने ऽग्रधर्मता भवतीति । तथा चोक्तम् ।
रूपाद्यनुत्पादाद्याकारैरग्रधर्मता ॥ १० ॥ इति सर्वधर्मानुपलम्भतत्वैकरसत्वाबोधिसत्त्वस्य का सर्वज्ञतेति कांक्षा प्रश्नयन्नाह । य श्रायुष्मन् सुभूते (p. 43, 15) इत्यादि। वाक्यावसाने कथं दानादिपारमितां विनेति शेषः।
तथ्यसंरतिसोपानमन्तरेण विपश्चितः ।
तत्त्वप्रासादशिखरारोहणं नहि युज्यते ॥ इति न्यायादानादिसपरिवारा रत्नचूडाक्ता सर्वधर्मशून्यताऽभ्यसनौयेत्यभिप्रायवान् । परिहारार्थमाह। एवमतदायुष्मञ्छारिपुत्रेत्यादि। प्रत्येकबुद्धदर्शनमार्गानन्तरमैहिकामुत्रिकैर्गुणैर्युक्तो बोधिसत्त्वानां मार्गों वक्तव्य इत्याह। प्रज्ञापारमितार्यशारिपुत्रेत्यादि (p. 44, 1) । प्रज्ञापारमिता बोधिसत्त्वानां दर्शनमार्ग इत्यर्थः । स समासतो लौकिकस्याग्रधर्मस्य समनन्तरमनुपलम्भः समाधिः। प्रज्ञा चात्र ससंप्रयोगा वेदितव्या। प्रभेदतः पुनस्तथैव दःखे धर्मज्ञानक्षान्तिर्धर्मज्ञानमन्वयज्ञानशान्तिरन्वयज्ञानम् । एवं समुदये निरोधे मार्गे प्रतिपत्तव्यमित्येते षोडशचित्तक्षणा दर्शनमार्गः। चित्तक्षणः पुनर्जेयज्ञानोत्पत्तिपरिसमाप्तितो ग्राह्यः। केचिद्
अदृष्टदृष्टेहुंचार्गस्तच पञ्चदशा क्षणाः। इति वर्णयन्ति। तदयुक्तम्। तथाहि प्रयोगमार्गे दःखसत्याधिपतेर्यस्य धर्मस्य पूर्वविचारणामधिपतिं कृत्वा