________________
व्यभिसमयालङ्काराजोकः ।
१४६
66
विद्धिरुपचयः परिहाणमपचयः । एतदुक्तम् । “ रूपादेः परमार्थतो न हानिवृद्ध्याद्यर्थं शिक्षणमित्येवं सर्वधर्मालम्बने मूर्धगतमुत्पद्यत इति ।
मूर्धगं रूपाद्यहानादिप्रभावितम् ॥ ८ ॥ इति
66
मूर्धानन्तरं क्षान्त्यर्थं शिक्षत इत्याह । यो न रूपस्ये(p. 42, 18 ) त्यादि परिग्रहः स्वीकारः । त्यजनमुत्सर्गः । तदर्थमाध्यात्मादिशून्यताबलेन न शिक्षत इत्यर्थः । पञ्चविंशतिसाहस्त्रिकायाश्वोक्तम् । “ रूपस्य यावत् सर्वाकारज्ञताया अध्यात्मशून्यतां यावदभावस्वभावशून्यतामुपादायापरिग्रहत्वेनेति । एतदुक्तम् । “ रूपादेरध्यात्मबहिर्धादिश्रन्यतामुपादायापरिग्रहणादिकमित्येवं सर्वधर्मालम्बने क्षान्तिरुत्पद्यत" इति । तथा चोक्तम् । अध्यात्मशून्यताद्याभौ रूपादेरपरिग्रहात् ।
ति:
इति क्षान्त्यनन्तरमग्रधर्मार्थं शिक्षत । इत्याह । नापि कस्यचिदित्यादि (p. 43, 5 ) । परिग्रहायेति । परिगृह्यते ऽनेनेति परिग्रहः । विधानं प्रतिषेधश्च । तदेव दर्शयन्नाह । नोत्पादाय नान्तर्धानायेति । कस्यचिद्धर्मस्येति । सामान्याभिधाने सत्यपि हेयरूपत्यैव ग्रहणमिति जडजनाशङ्कावारणार्थमाह । यो न कस्यचिद्धर्मस्येत्यादि (p. 43, 10) । सर्वज्ञताया अपौति । बुद्धभूमेरपि सर्वचैवाभिनिवेशो बन्धनमिति भावः । यथोक्तशिक्षायां को गुण इत्याह । एवमित्यादि । एतदुक्तम् । “रूपादेरनुत्पादनिरोधाद्या