________________
द्वितीयपरिवर्तः।
निर्वेधभागीयाधिगमे सति यथोक्तप्रत्येकबुद्धमार्ग इति निर्वेधभागीयार्थमाह। गम्भौरप्रज्ञो वतायामित्यादि। आधारतत्त्वार्थकथनेनैवोष्मार्थप्रतिपादनाङ्गम्भीरप्रज्ञः । नामपदप्रज्ञप्तिं विज्ञानादिस्कन्धप्रज्ञप्तिं श्रुतमयज्ञानार्थ ग्रन्थार्थकथनान्निर्दिशति। संस्त्याभ्यपगमस्याविरोधाद्धर्मतया न विरोधयति। चिन्तामयज्ञानार्थ युक्त्या स्थिरीकरणादत्तानीकरोति। भावनामयज्ञानार्थं ध्यानक्रमोपदेशादपदिशति। एतदक्तम्। “रूपादिसाङ्केतिकधर्मप्रज्ञप्तरविरोधेन धर्मतायाः प्रतिपादनमि"त्येवं सर्वधर्मालम्बने सत्यूष्मगतमुत्पद्यत इति। निर्मितपुष्यस्वरूपाख्यानेनैव प्रतिपादनाङ्गम्भौरप्रज्ञ इति । तथा चोक्तम् ।
प्रज्ञप्तेरविरोधेन धर्मतासूचनाकृतिः ।
जष्मगम् इति युक्तरूपमिति निश्चित्य स्वयमेवात्मविकल्पस्य स्वहस्तमाह। एवमेतदित्यादिना । एवञ्चाति निर्मिताजातपुष्यवत् प्रत्येकबुद्धमार्गे शिक्षितव्यम् । साधूक्तत्वेनानुमत्यर्थमाह। एवमेतत् कौशिके(p. 42, 10)त्यादि। ततः किं भवतीत्याह। एवं शिक्षमाण इत्यादि। न क्वचिदुपलम्भयोगेन शिक्षत इति समुदायार्थः। अष्टभूमिष्विति । अष्टमकादिभूमिक्लेशज्ञेयावरणप्रहाणभेदेन बुद्धत्वं सर्वज्ञत्वं वेति इयमुक्तम् । तत्र शिक्षतेऽविपर्यासशिक्षया नियमेन तथागतत्वप्रापणात्। बुद्धत्वादिशिक्षा च सर्वधर्मपरिज्ञानपूर्विकेत्याह। यो बुद्धत्व इत्यादि। प्रसङ्गागतं निर्दिश्योमानन्तरं मूर्धार्थ शिक्षत इत्याह । योऽप्रमेयेधित्यादि।