________________
अभिसमयालधारालोकः ।
१४७
नाप्यस्मदर्शनपथातिकान्तदेशादानौतानि तथाविधशक्तिवैकल्यात्तस्मान्मनोमयानि निर्मितान्येतानि पुष्याणौति । तदेव कथयन्नाह । नैतानीत्यादि। तब वृक्षाः पुष्यफलोपगाः मल्लिकाद्या गुल्माः। अतिमुक्तकादयो लताः । बुद्धानुभावेन विदितवितर्कत्वात् परिहरन्नाह। अनिर्जातानीत्यादि। मनसः सकाशत् प्रतिभासमानान्यपि कथमनिर्जातानौति । तत्कस्य हेतोरित्याशङ्ख्याह। न होत्यादि (p. 41, 19)। यस्मान्न मनोनिर्जातानि तत्वतः कानिचित्पुष्याणि ग्राह्यग्राहकभावस्यालोकत्वादिति शेषः। नापि वृक्षादिनिर्जातानि भवतैव निषिद्धत्वात् । अनिर्जातान्येतानि पुष्पाणौति वचनेन पुष्याणां स्वरूपमप्रतिषिद्धं जन्मनिषेधात्तर्हि नित्यत्वमभ्युपगतं तच्चायुक्तमित्याह । यत्त्वमित्यादि। लतानिर्जातानीत्यच न वक्तव्यमिति शेषः। कुत इत्याह। यत्कौशिकेत्यादि (p. 42, 1)। यस्माद्यदनिर्जातन्न तत्पुष्यम् । नित्यस्य क्रमयोगपद्याभ्यामर्थक्रियाविरहेण स्वरूपासम्भवत्वादिति मतिः। तत्र ग्राह्यविकल्पप्रहाणेन प्रत्येकबुड्वाधिगमं श्रावकेभ्यो विशिनष्टि ग्राहकविकल्पग्रहाणाभावेन च प्रत्येकबुड्वेभ्योऽनुत्तरबुद्धाधिगमम् ।
आधारेण चाधिगमस्यासाधारण्यमिति विशिष्टः प्रत्येकबुद्धानां मार्गों यथोक्तश्रावकचतुःसत्याकारानुपलम्भभावनया यथावस्तु प्रतीत्यसमुत्पादानुगतया बोधिसत्त्वेन परोज्ञेयः। तथा चोक्तम् ।
ग्राह्यार्थकल्पनाहानाबाहकस्याप्रहाणतः । आधारतश्च विज्ञेयः खड्गमार्गस्य सङ्ग्रहः॥८॥ इति