________________
१४६
हितीयपरिवर्तः।
वस्थितस्वरूपनिर्देशान्न प्रज्ञप्यते। उपसंहारार्थमाह । तद्यथैवेत्यादि । तस्माद्येनैव कारणेन नैरर्थक्येन सूचनादि न क्रियते। तेनैव कारणेन कश्चित् प्रत्येषको न भविष्यति । निर्दिश्यमानाया एवाभावादिति भावः। यथाविद्यमानस्वभावमपि निर्मितपुष्पं प्रतिनियतदेशादिरूपेणाविचारैकरमणीयतया प्रतिभासते तबदस्तुभूताधारमन्तरेणापि प्रतिनियताधिगमधर्मप्राप्तिरिति सूचनायाऽऽधाराधिकारे निर्मितपुष्यप्रकारोपन्यासार्थमाह । अथ खलु शक्रस्येत्यादि। अस्य धर्मपर्यायस्येति । प्रत्येकबुद्धमार्गस्यास्य दशकुशलादिकर्मस्वभावस्य धर्मपर्यायस्य । यन्नुशब्दोऽवधारणे पूजार्थमेवेत्यर्थः । अभिनिर्मायेति भावनाबलादत्पाद्य चित्तोत्यादानन्तरं तथैव कृतवानित्याह । अथ खलु शक (p. 41, 9) इत्यादि। अभ्यवकिरदिति । आभिमुख्येन समन्तात् क्षिप्तवान् । इन्द्रमनुव्याहरणायेति। अनुशब्दो लक्षणार्थे तद्योगेन चेन्द्रशब्दात कर्मविभक्तिः। एतदुक्तम्। “इन्द्रवचनादुत्तरकालं निर्मितपुष्यतत्त्वकथनव्याजेनाधारस्वरूपस्य प्रतिपादनाय कृष्यमाणार्थानुकारि चित्तमभूदिति । इमानौति सम्प्रत्यनुभूयमानानि। त्रयस्त्रिंशग्रहणं निजावासत्वात्तच्च स्वोपलम्भयोग्यदेशोपलक्षणम्। दृष्टपूर्वाणौति। अनुभूतपूर्वाणि । किमिमान्यथ सर्वाण्येव पुष्याण्यदृष्टपूर्वाणि नेत्याह । यानौत्यादि (p. 41, 15)। यद्येवं किं स्वभावानि तर्हि तानौत्याह। निर्मितान्येतानि पुष्याणौति । एतदुक्तम् । "न मदुपलम्भयोग्यदेशेषु प्रचरन्ति सन्ति, दृष्टपूर्वाणि