________________
अभिसमयालदारालोकः ।
१४५
इति होत्याद्युपसंहारो गतार्थत्वान्न लिखितः। प्रसङ्गागतं निर्दिश्येदानीमाधारतोऽपि प्रत्येकबुद्धानां विशिष्टो मार्ग इति कथनाय प्रश्नयन्नाह। केऽस्या इत्यादि (p. 40, 15)। ग्राह्यग्राहकविकल्पयोर्यथाक्रम प्रहाणाप्रहाणमित्येवंरूपेणास्याः प्रत्येकबुद्धमार्गात्मकायाः प्रज्ञापारमितायाः कथ्यमानायाः कौग्विधगोचकाः पुहलाः प्रत्येषका ग्राहका भविष्यन्ति । तथागतानुभावेन विदितार्थत्वादार्यानन्दः कथयन्नाह । ते खल्वित्यादि। अविनिवर्तनीया इति निर्वेधभागीयाधिगमेनावैवर्तिकाः प्रत्येकबोधौ त एव स्वबोध्यभिलाषादोधिसत्त्वाः। कायिक्या धर्म देशनयाऽबुद्धकबुद्धक्षेचे सत्त्वार्थकरणाभिप्रायान्महासत्त्वाः। दृष्टिसम्पन्ना वेति। मध्यप्रज्ञादृष्टिसमुपेताः। अर्हन्तो वा क्षोणाश्रवा इति प्रहौणस्वदर्शनमार्गावरणत्वेन पूजार्हाः। अनेन च पदत्रयेण प्रत्येकबोधौ यथाक्रम समुदानीतगोत्रका धर्मताप्रतिलब्धगोत्रकास्त एव नियतगोत्रकाः पुगला इत्याख्यातम्। सर्वत्र च वाशब्दः परस्परविकल्पापेक्षया द्रष्टव्यः । पुनरप्यार्यसुभूतिरन्यथा प्रतिपादयान्नाह । नास्या इत्यादि। ननु स्वमार्गोपदेशपूर्वक प्रत्येकबोधिमधिगच्छन्तोऽपि प्रत्येकबुद्धाः कथं न केचित् प्रत्येषिका इति। तत्कस्य हेतोरित्याशङ्कयाह । तथाहौत्यादि (p. 41, 1)। अति प्रत्येकबुद्धमार्गाधिगमकाले परोपदेशनैरर्थक्यात् स्वयंबोधेन प्रत्येकबुद्धानामिति भावः। संक्षेपकथनेन विस्तरार्थसूचनान्न कश्चिदर्थः सूच्यते । विस्तरकथनेन संक्षिप्तार्थपरिदीपनान्न परिदीप्यते। यथा
19