________________
१४४
.
हितोयपरिवर्तः।
कारगणसम्पदो हेतरित्याह। सम्यकसम्बडोऽप्यार्यसभूते इत्यादि। सम्यक्सम्बुद्धो रूपकायस्तथागतः। परिहरनाह। निर्वाणमपौत्यादि (p. 40, 4)। यत्र हि नाम निर्वाणमपि प्रतिविशिष्टं धर्मकायमद्दयज्ञानस्वभावं मायास्वप्नसमानं वदामि। तत्र किं पुनरन्यं धर्म रूपकायं न वदामि। अपि तु वदाम्येवेत्यर्थः। प्रतिषेधद्दयस्य प्रकृतार्थप्रतिपादकत्वात् । यस्माद्यथोक्तस्वभाव एव भगवानभिमुखौक्रियमाणः सर्वगुणसम्पदो हेतुः प्रमाणबाधितस्वरूपत्वेनान्यथा विपर्यास इति भावः। पुनरपि बहुलतरभावाभिनिवेशात् सत्यधर्माप्रतिपत्तिरित्याह। निर्वाणमपी(p. 40. 6)त्यादि। अन्यथा तौर्थिकानामिव प्रादेशिकशून्यतासद्भावेन भावाभ्युपगमतो मुक्त्यनुपपत्तिरित्यभिप्रायवान् परिहरन्नाह । तद्यदीत्यादि। तच्छब्दो वाक्योपन्यासे। यदौत्यभ्युपगमे। तदक्तम् । निर्वाणादन्यः कश्चित् प्रतिविशिष्टो धर्मो न सम्भवति। तथाप्यभ्युपगम्योच्यते। यदि निर्वाणादपि कश्चिदन्यो विशिष्टतरो धर्मः सम्भवेत् तदा तमपि धर्म मायादिसदृशं वदेयमिति। तथाचार्यनागार्जुनपादैरुक्तम् ।
रागद्देषोद्भवस्तीव्रदष्टदृष्टिपरिग्रहः । विवादास्तत्समुत्थाश्च भावाभ्युपगमे सति ॥ स हेतुः सर्वदृष्टौनां केशोत्पत्तिन तं विना। तस्मात्तस्मिन् परिज्ञाते दृष्टिक्केशपरिक्षयः ॥ परिज्ञातस्य केनेति प्रतीत्योत्पाददर्शनात् । प्रतीत्य जातञ्चाजातमाह तत्वविदां वरः ॥ इति