________________
व्यभिसमयालङ्कारालोकः ।
१४३
रूपास्ततश्च तात्त्विकसत्त्वास्तिकपरिदौपितं न सम्यक् - निर्देश इति मतिः । मायोपमास्त इत्यादिना परिहार - माह । एवं मन्यते । यथा गजादे रूपेण माया मृच्छकलादिभ्यो विवेकेनानुपलम्भमानत्वान्नान्या । नाप्यनन्या । तथैवं मन्त्राद्यनुपप्लुतलोचनैर्मृच्छकलादौनामदर्शनात्
।
अतस्तत्त्वान्यत्वाभ्यामनिर्वचनीयत्वेन वस्तुधर्मसमतिक्रमात् पुद्गलादिवत्तत्त्वतोऽस्तीति न शक्यते वक्तुम् । आबालजनप्रत्यक्षसिद्धत्वेनानुभवपथमनुप्राप्तत्वाद्दिकल्पादिवत् संवृत्या च नास्तीति न शक्यतेऽध्यवसातुम् । ततश्च ये ये प्रतीत्यसमुत्पन्नास्ते परमार्थतोऽस्तिनास्तित्वव्यवहारयथातिक्रान्तमूर्तयः । यथा माया तथा चामौ सत्त्वादयो भावा इति स्वभावहेतुना कस्यचित्प्रसिद्धेनार्थेन प्रसिद्धोऽर्थः साध्यत इति मायात्वेनोपमिताः । न्यायतस्तु पुनस्ते - ऽपि सत्त्वा मायात्मका स्वातो न किञ्चित्तात्त्विकसत्त्वास्तित्वं परिदौपितमिति । मायोपमाः स्वप्नोपमा इति पदद्दयम् प्रबुद्धाप्रबुद्धावस्थाविषयभेदेनोक्तम् । श्रद्दयमित्येकस्वभावम् । तदेव कुत इत्याह । अद्वैधौकारमिति (p. 39, 16)। न विद्यते द्वैधौकारो नानात्वं यस्य तत्तथोक्तम् । सर्वोपसंहारेण व्याप्तेः प्रवर्तनादिति मतिः । तदयं वाक्यार्थो यस्मादलौकरूपतया मायोपमास्ते सत्त्वास्तस्मान्माया च सत्त्वाश्चादयमेतदद्वैधौकारम् । तथा यस्मात् स्वप्नोपमास्तस्मात् स्वप्नश्च सत्त्वाश्चादयमेतदद्वैधौ कारमिति । तामेव व्याप्तिमादर्शयन्नाह । सर्वधर्मा अपौत्यादि । एतग्रहणवाक्यं विखन्नाह । श्रोतआपन्नोऽपीत्यादि । व्याप्तावेवं प्रतिपादितायां कथं मायोपमो भगवान् सर्वा