________________
१४२
द्वितीयपरिवर्तः।
वचनाद्राहकविकल्याप्रहाणं प्रतिपादितम् । “ तच्च ग्राह्याभावे तदग्रह" इति न्यायादयुक्तमिति वितर्कयन्त आहुः। किमित्यादि (p. 39, 6)। किंशब्दो वितर्के। किंरूपाः किंस्वभावाः कौग्विधग्राहकविकल्पोपेताः प्रत्येकबुद्धयानधर्मभाजो। धार्मश्रवणिकाः प्रत्येकबुद्धा ग्रहीतव्या इति यावत्। परिहारार्थमाह । मायेत्यादि। अयमभिप्रायः । वस्तुधर्मो ह्येष यत् स्वलक्षणे वस्तुनि सति तबाहक निर्विकल्पकं ज्ञानस्वलक्षणमुत्पद्यते। तदभावात्तन्नेति । ग्राहकविकल्पस्य पुनरनादिकालौननिरुध्यमानरूपादिग्राहकविकल्पज्ञानसमाक्षिप्तस्वसन्तानवासनाप्रबोधजन्मत्वान्नायं नियमो ग्राह्यविकल्पे सत्येव समुदय इति । तस्मान्मायास्वभावनिर्मितपदार्थसमाना एव ते वितथप्रख्यातिरूपग्राहकविकल्पेन सङ्गतत्वात् प्रत्येकबुद्धाग्राहकत्वेनैवेष्टव्या इति । ननु चैवंविधविकल्पेन ग्राह्यविषयं गृह्णन्तोऽपि कथमलौका इति। तत्कस्य हेतोरित्याशङ्कयाह । तथा होत्यादि (p. 39, 11)। समाहितासमाहितावस्थायां ते प्रत्येकबुद्धा यथाक्रमं नैव श्रोष्यन्ति न साक्षात्करिष्यन्ति ग्राहकविकल्पाकारेणेति शेषः । विकल्पोऽवस्तुनिर्भासादिसंवादादपलव इति मतिः। 'अमुना च न्यायेन ग्राहकविकल्पाग्रहाणतोऽपि प्रत्येकबुद्धानां मार्गस्वरूपं कथितम् । मायानिर्मितसदृशा इति केनचिदाकारेणेति सादृश्यवचनात् सत्त्वानां मायास्वभावता निराकृतेति प्रसङ्गागतविकल्पार्थमाह । किम्युनरित्यादि। मायोपमास्ते सत्त्वाः। किन्न ते मायावितथ