________________
बभिसमयानधारालोकः।
१४१
बुबैरतस्तेषामपि स्वबोध्यधिगमावस्थायां पूर्व प्रणिधानादिसामर्थ्येन यस्मिन्नर्थे येन प्रकारेण यस्य श्रवणेच्छा तस्य विज्ञाने तेनैव प्रकारेणाशब्दोऽपि सोऽर्थः प्रतिभातीत्यशब्दधर्मदेशनोच्यते। सूत्रान्तरेऽप्युक्तम्। “प्रत्येकबुवानां कायिकी धर्मदेशना। तथा मनसा शकाय गाथा विसर्जिते"त्यादि। तथा चोक्तम् ।
शुश्रूषा यस्य यस्यार्थे यत्र यत्र यथा यथा । स सोऽर्थः ख्यात्यशब्दोऽपि तस्य तस्य तथा तथा ॥७॥ इति
वैशिष्ट्यमेवाभिधाय विशिष्टानामविशिष्ट एव मार्गोंऽन्यथा कारणविशेषानुपपत्तेरिति प्रत्येकबुद्धमार्ग प्रकृतमाह। तेन होत्यादिना (p. 38, 21)। यस्माद्भवद्भिरेव देवपुत्रैरुक्तम् । दूरादूरतरं प्रविशतीत्यादि। तस्मादेव कारणादिदमवगम्यतामिति शेषः। एवं तर्हि नितरां दूरादूरतरादिकं प्रविशमौति मतिः। साक्षात्कर्तुकामः प्राप्तुकामः स्थातुकामो निश्चलौभवितुकामः । स नेमां क्षान्तिमनागम्येति । इमां मार्गज्ञतां धर्मनिध्यानक्षमणविषयामप्राप्य स पुगलो न सम्भवत्यन्यथाधिगमाभावादित्यनेन च मार्गज्ञतां सर्वमार्गविषयिणीमाह। व्याप्त्यर्थप्रतिपादनेन प्रत्येकबुद्धमार्गाधिकारादिदमुक्तम् । न केवलं ग्राह्यविकल्पस्यैव प्रहाणतः। प्रत्येकबुद्धानां योऽसौ विशिष्टो मार्गस्तत्वभावा मार्गज्ञता किन्तईि श्रावकादिमार्गखभावापौति । पेयालमिति। स नेमां शान्तिमनागम्येतिपदं सकदागामिफलमित्यादिपदचयेतिदेशनीयमित्यर्थः। ग्राह्यविकल्पस्यैव प्रहाणमिति