________________
द्वितीयपरिवर्तः ।
ष्यत्येवायमार्यसुभूतिरित्यस्माकं घेतो जातं यावत् तमपरिहृत्यान्यदेव ज्ञानगाम्भीर्यं कथयतीत्याहुर्देवपुचाः । उत्तानौत्यादि । बतशब्दोऽवधारणे । पुहलनैरात्म्यनिर्जातत्वेन तौर्थिकानामगोचरत्वाच्छ्रावकज्ञानं दूरम् । तस्माद्दूरतरं मृद्दिन्द्रियत्वेन श्रावकानामविषयत्वात् प्रत्येकबुद्धज्ञानम् । क्लेशावरणप्रहाणफलत्वेन श्रावकज्ञानं सूक्ष्मम् । तस्मादपि शेयावरणैकदेशग्राह्यविकल्पप्रहाणेन नक्ष्मतरं प्रत्येकबुद्धज्ञानम् । परोपदेशषोडशाकार प्रभावितत्वेन श्रावकज्ञानं गम्भौरम् । तस्माच्च गम्भौरतरं स्वयम्बोधादिदं प्रत्ययता - मात्रप्रभवत्वेन प्रत्येकबुद्धज्ञानम् । स्वत्रान्तरेऽप्युक्तम् । “ एत एव दशकुशलाः कर्मपथाः स्वयमभिसम्बोधतया गम्भौरा इदं प्रत्ययानुबोधेन च प्रत्येकबुद्धज्ञानं निवर्तयन्तीति । प्रविशति तत्पक्षसमाश्रयणात् । तदेवाह । देशयति । भाषत इति । तथा चोक्तम् ।
परोपदेशवैयर्थ्यं स्वयम्बोधात् स्वयम्भुवाम् । गम्भीरता च ज्ञानस्य खड्गानामभिधीयते ॥ ६ ॥ इति कथं धर्मदेशना च नामाप्रव्याहारा च येन वचन - कार्यलिङ्गाभावेन ज्ञानगाम्भीर्यं सिध्यतीत्यपि न वक्तव्यम् । तो नाति नाविचार्य वाचं भाषत इत्यालापविक्षेपौ अतो धर्मदेशनालापमयौ महते विक्षेपाय संवर्तते । विक्षेपश्च सन्तानक्षोभं गाढमादधातोति मत्वा यथा बुद्धेन भगवता प्राग्बोधिसत्त्वभूतेनैवं प्रणिधानं प्रवर्तितम् । " प्राप्तबुद्धत्वोऽहं चिन्तामणिरिवालापमन्तरेणापि सत्त्वार्थक्रियासमर्थो भूयासमिति । तथा बुद्धत्वसाम्यात् प्रत्येक
66
१४०