________________
अभिसमयालधारालोकः ।
१३६
णम् । पृष्टप्रतिवचनं प्रव्याहारः। एतदेवोभयं सम्मूढानधिकृत्य देशना प्रमत्तानधिकृत्याप्युपदेशना, उपदेशः । अयच्च वितर्को देवपुत्राणां तथागतानुभावात्पन्नोऽवसेयोऽन्यथा न प्रत्येकबुड्डानारभ्यार्यसुभूतिना किश्चिदक्तमिति तेषां कथमयं विकल्पः स्यात् । योनिशोवितर्क इत्यनुमत्यर्थमाह । न विज्ञायत इत्यादि। न विज्ञायत इति यदुक्तं तत् साधूक्तमिति शेषः । दिरभिधानन्तु ।
विस्मये च विवादे च कोपे दैन्येऽवधारणे ।
प्रसादने प्रहर्षे च वाक्यमेकं विरुच्यते ॥ इति वचनाद्यथासम्भवं विस्मयावधारणादौ ग्राह्यम् । कथं साधूक्तमित्याह। तथा होत्यादि (p. 38, 13)। यस्मादश्रोहसंस्कारकं वाक्यं ब्रवाणः कथं नोन्मत्तः स्यादिति न्यायेन स्वयम्बोधात्स्वयंभुवां बोधाय न किञ्चिदत्र भाषणादि श्रूयते। तस्मात्तदर्थाय यद्भाषणादि तन्न विज्ञापय इति साधूक्तम् । सालापधर्मदेशनया परान कुशले श्रावकाः प्रवर्तयन्तीति शब्दोच्चारणधर्मदेशनया श्रोतृभिः क्रियते वक्तज्ञानसामर्थ्यावबोधः। प्रत्येकबुड्डाः पुनर्जेयावरणैकदेशग्राह्यविकल्पप्रहाणादशब्दोच्चारधर्मदेशनया स्वाधिगतज्ञानादिसामर्थ्येन परान् दशकुशलादौ प्रवर्तयन्त्यतस्तेषां ज्ञानस्य परानवबोधतया गाम्भीर्य द्वितीयं वैशिष्ट्यमिति कृत्वा वचनात्मकमपि कार्यलिङ्गभाषणादि न किञ्चिदत्र तज्ञानस्वरूपप्रतिपादनाय सूच्यते। अतद्रूपपरावृतवस्तुमात्रप्रसाधनानिर्दिश्यते। यतस्तस्मादपि कारणान्न विज्ञायत इति साधूक्तम् । प्रत्येकबुद्धानां स्वयम्बोधात् परोपदेशनैरर्थकमित्येवं रूपं वितर्क परिहारहारेण परिहरि