________________
१३८
द्वितीयपरिवर्तः।
पुरुषा दर्शनकारणोपपत्रानुपलभभावनयाऽअधर्माधिगमार्थ विस्तरेण श्रोतआपत्तिफलप्रतिपन्नकत्वादिदशभूमिष्वभिनिवेशयोगान.स्थातव्यमित्येवं भावनौयमिति । तथा चोक्तम् । दशभूमीः समारभ्य विस्तरास्थानदेशनात् । अग्रधर्मगतं प्रोक्तमार्यश्रावकवर्त्मनि ॥ तत्कस्यहेतोर्बुद्धेन बुद्ध्वा धर्मासमौक्षणात् । इति श्रावकमार्गानन्तरं प्रत्येकबुद्धानां मार्गाभिधाने न्यायप्राप्तेऽपि श्रावकेभ्यः कथं प्रतिविशिष्टास्ते येन तेषां मार्गभेद इत्याशक्य वैशिष्ट्यप्रतिपादनार्थं तावदाह। अथ खस्लु तत्र पर्षदीत्यादि (p. 38, 7)। यानि तानौति निपातसमुदायत्वेन यानि कानिचित् पूर्वोपश्रुतानौत्यर्थः । यक्षरुतानौति । तेषां यक्षाणां स्वसङ्केतप्रतीतये रुतानि । पदानि रुतसमुदायाः। मन्त्रितानि यावदाविवक्षितार्थपरिसमाप्तिर्महावाक्यानौत्यर्थः। प्रव्याहृतानि। तत्र तत्र कथामार्गे प्रश्नप्रतिवचनानि। तानि विज्ञायन्ते जल्प्यमानानौति । सङ्केतवशादुच्चार्यमाणनि। तानि सार्थकान्यवबुध्यन्ते। न पुनरिदमित्यादि। श्रावकाः परोपदेशसापेक्षाः स्वबोधिं बुध्यन्त इत्यागमः । प्रत्येकबुद्धाः पुनः स्वयं पूर्वश्रुताद्यभिसंस्कारेण परोपदेशं प्रत्यनपेक्षाः स्वबोधिमधिगच्छन्त्यतस्तेषां बुद्धाधुपदेशनैरर्थकमित्येकं वैशिष्ट्यम् । यतस्तस्मात्कारणात् प्रत्येकबुद्धानधिकृत्य यद्भाषणादि न तत् सार्थकं विज्ञायत इति वाक्यार्थः। भाषत इत्यादि व्याख्यातम् । अथवाऽधौष्टदेशना भाष