________________
अभिसमयालदारालोकः।
१३७ संस्कृत इति । कामादिके। असंस्कृत इति । तथतादिके । तत्र न स्थितस्तत्वतो वस्त्वनुपलम्भात्। न च ततो व्युत्थित इति । नैव तत्रास्थितो निर्विषयस्य नोऽप्रयोगात् । संवत्या स्थानमस्थानं वा प्रज्ञप्तं भगवत इति मतिः। एवमस्माभिरपि पारमार्थिकाभिनिवेशनिषेधेन संस्त्या सर्वचावस्थानादिकं विधीयते । यथा त्वयोक्तमतो न सर्वथाऽवस्थानानुपपत्तिरिति तद्दचनेनैव परिहरनाह। एवमेवेत्यादि। एवमेवेत्यनन्तरोतक्रमेणैवेत्यर्थः। तदेव विभाजयन्नाह । यथेत्यादिना। न स्थितः क्षणिकानित्यवस्वभावात् । नास्थिती निर्विषयप्रतिषेधासम्भवात्। न विष्ठितः प्रबन्धानित्यवस्तुनोऽसत्त्वान्न विसदृशौं स्थितिमनुप्राप्तः। नाविष्ठितस्तथैव प्रतिषेषासम्भवात्। एवमनेन शिक्षितव्यमिति (p. 38, 1)। प्रयोगावस्थायां तथा स्थास्यामौति। तथा शिक्षिष्य इति मौलावस्थायामेवमनेन शिक्षितव्यमिति पूर्वेण सम्बन्धः । सुस्थितोऽस्थानयोगेनेति । विशेषाधिगमलाभेन सुष्टु स्थितो मायापुरुषस्येवानभिनिवेशयोगेन पृष्ठावस्थायामेवमनेन शिक्षितव्यमित्यचापि सम्बन्धः। विस्तरेण प्रतिपत्तिमेवं निर्दिश्योपसंहरन्नाह । एवमवेत्यादि। तच किं भवतीत्यादि। एवम्भावनाधिगताअधर्मात्मकेन प्रज्ञापारमिताविहारेण विहरत्यत एव चाविरहितोऽनेन मनसिकारेण भवति। इतिशब्दः प्रकरणसमात्यर्थः। तदयं वाक्यार्थः। यस्मात्तथागतेन बोधिमभिसम्बध्य तत्त्वतो न केचिवाः समुपलब्धास्तस्मान्मायास्वभावा एवामी भावाः प्रतिभान्तीति । प्रमाण
18