________________
द्वितीयपरिवर्तः ।
१३६
अत एव तद्रूपसन्निपात विनेयजनासम्भवान्नैकस्मिन् समवधानमत एव च नैकलाकधातौ युगपद्दहुतथागतोत्पत्तिः । तत्सम्भवेऽपि न विरोधोऽपगतमात्सर्येर्ष्यादिमलानाम् । तथा हि तैरित्यं प्रणिहितम् ।
1
यथा यथार्थसम्पत्तिर्भव्यानामुपपत्स्यते । तथा तथावभासोऽपि भूयादस्मत्समाश्रयात् ॥ इत्यलमतिप्रसङ्गेन । न्यायोपपन्नतथागतनिर्माणकायपरिनिर्वाणेऽप्यस्थानानुपपत्तिरित्यभिप्रायवान् यदौत्याद्यनुवादपूर्वकमाह । तत्कथं पुनरित्यादि (p. 37. 10) । यद्येवन्न स्थातव्यम् । तदानेन बोधिसत्त्वेन कथं केन पुनः प्रकारेण स्थातव्यं प्रतिपत्तव्यम् । शिक्षितव्यम् । प्रतिपत्त्या संपादयितव्यम् । किंशब्दस्य क्षेपाभिधायित्वान्नैव केनचित्प्रकारेणेत्यर्थः । तद्वचनेनैव परिहारं दापयितुमाह । तत्किं मन्यस इत्यादि । यत्तथागतस्थानं तत् किं त्वं मन्यसे बुध्यसे । यदि स कथयेत्याह । क्केत्यादि । अपि तूपा - लस्ये त्वेत्यादि । प्रथमपरिवर्ते (p. 37, 10) यदुक्तं तदनेन प्रतिपादितमिति ग्राह्यम् । स्थानशब्दस्य यथारुतत्वेन दोष इत्यभिप्रायात् प्रतिवचनमाह । न क्वचिदित्यादि । ननु गृध्रकूटादौ स्थितोऽपि भगवान् कथं न क्वचित्स्थित इति । तत् कस्य हेतोरित्याशङ्कयाह । अप्रतिष्ठितमानस (p. 37, 15 ) इत्यादि । यस्मादोधिसत्त्वोऽभिसम्बुध्य तत्त्वतो धर्माणामनिदर्शनादप्रतिष्ठितं मानवमानसमस्येत्यप्रतिष्ठितमानसस्तथागतः । तस्मान्न क्वचिदुपलम्भयोगेन स्थित इति पूर्वेण सम्बन्धः । तदेव कथयन्नाह । स नैवेत्यादि ।