________________
अभिसमयालङ्कारालोकः ।
१३५
न्मुनौनामकलुषधियामासंसारावस्थानाञ्च । यथोक्तं सुवर्ण
प्रभासोत्तमनुत्रे |
यदा शशविषाणेन निश्रेणौ सुकृता भवेत् । स्वर्गस्यारोहणार्थाय तदा धातुर्भविष्यति ॥ अनस्थिरुधिरे काये कुतो धातुर्भविष्यति ।
इत्येवं नासिडो हेतुः । सपक्षभावान्न विरुङ्घः । श्रविकले कारणे सति कार्यासम्भवायोगो बाधक इति विपर्यये बाधकप्रमाणान्नानैकान्तिकः । अथ मतम् । आसंसारावस्थितौ महामुनेरव्याहतज्ञानशक्तिकस्यापर तथागतोत्पादो व्यर्थ इत्यदोषो यस्मादव्याहतज्ञानशक्तित्वेऽपि यौगपद्येनापि बहुबुद्धरूपविनेयसत्त्वार्थेषु भगवन्तस्तथागतास्तुल्यकारणवृत्तित्वाच्छिलावस्तब्धमण्डूकोइरणेन पृथग्जनभूमिस्थिता इव दयालवः प्रवर्तन्ते। नाप्यपरतथागतेात्पादे पूर्वतथागतज्ञानशक्तिर्व्याहतेति वक्तव्यम् । एकच सन्निपत्यापि तद्रूपसन्निपातविनेयजनसम्भवे सत्त्वार्थकरणात् । तथाकस्याव्याहतज्ञानशक्तिसद्भावेनापरेण तत्तुल्यहेतुना तथा न भवितव्यमिति न्याय्यम् । न ह्येकः स्वरिर्भूत इत्यपरे - स्तत्समाननिमित्तैर्न भवितव्यम् । स्यात् मतिरेकतथागताविनेयत्वे सर्वेषामविनेय इति नैवम् । यस्मादेकस्य भगवतोऽविनेयत्वेन तुल्यसम्भारतया बहूनामपि तथागतानां प्रत्येकमेकैकरूपेणाविनेयोऽपि सन्ननिर्मितबहुबुद्धरूपविनेयः स्यामिति । तथाविधप्रणिधानादिकारणसमाक्षिप्तत्वेन युगपत्सर्वेषामेव विनेयो भवति । अत एव स्वपरिपाचित - सत्त्वविनयासम्भवान्नापि श्रावकैर्वा समानत्वमवसेयम् ।