________________
१३४
द्वितीयपरिवर्तः ।
तस्मात् ।
अल्पकल्पासंख्येयभावनापरिवर्द्धिताः । तिष्ठन्त्येव पराधौना येषां तु महतो कृपा ॥ गुणमयमूर्तेस्तु भगवतोऽत्यन्तोच्छेदलक्षणायां परिनिस्ताविष्यमाणायां तच्छरणार्थोऽपि नेदानीन्तनानामुपपद्यते। तथाहि चाणार्थः शरणार्थो वर्ण्यते यश्च बुद्ध भगवन्तं शरणं गच्छति । सोऽशैक्षान् बुद्धकारकान्धर्मान् शरणं गच्छति। प्रदीपप्रबन्धस्येव बुद्धकारकाशैक्षधर्मात्मकजिनात्यन्तप्रत्यस्तमये कुतस्तेषां चातुं सामर्थ्यम् । सामर्थ्यसम्भवेऽनिर्दृतिप्रसङ्गः सामर्थ्यलक्षणत्वादस्तुनः। अतोतार्थस्थितस्य न शक्तिया॑हन्यत इति चेत् । नातीतस्य ताद्रप्येणास्तित्वे वर्तमानताप्राप्तेः। तथा च सेवाप्रतिष्ठितनिर्वाणसिद्धिः। समस्तरूपप्रत्यस्तमये वा किमवशिष्यते । अथ मतम् । तदुपदिष्टस्य प्रवचनरत्नस्य चातुमद्यापि सामर्थ्यमस्तीति तस्यापि सामर्थ्यमुच्यत इति । यद्येवं न मुख्यं तर्हि तच्छरणं स्यात् । न हि तत्कार्यस्य सामर्थ्य तस्य भवति। स्वभावभेदात्। तस्य चाधुना सामर्थ्यमेकान्तेन न प्रच्युतमिष्यत इति । नानुपचरितस्तच्छरणा
र्थोऽस्ति । को वायमागमधराणामस्थाननिर्बन्धो यदमौ निष्कारणवैरिणो युक्त्या गमान्तरोपेतमप्याभिप्रायिकमागमार्थमुल्ला भगवनितिप्रतिपादनाय सोत्साहाः सन्तिष्ठन्ते। भगवतः परिनिर्वाणाभावे कथं धातवो दृश्यन्त इति चेत् । नापि धातूनामयोगो भगवदाधिपत्यादेव तहिनेयानां प्रसादायतनधातुप्रतिभासनात् । परमार्थस्तु धातवो नेष्यन्त एव। मायोपमज्ञानमयकायत्वा