________________
अभिसमयानधारालोकः ।
१३३
देकोऽपि सत्त्वोऽस्ते न तावनिर्वाणं कृपाशयस्य युक्तम् । न सम्भवत्यपर्यन्तत्वात् सर्वसत्वानां संसारादभ्युद्धरणमिति चेत् । अत एव दयामयस्य तदाशयस्यापर्यन्तमेवावस्थानमन्यथा न प्रतिज्ञानुरूपमनुष्ठानं भवेत् । न च महाकरुणानुरूपम् । तथा हौयं महाकरुणा सर्वसत्त्वदुःखपरिचाणेच्छाकारा तदस्याः सुभावितायाः कुतोऽकाण्ड एव विच्छेदः। स्यान्मतिः। न विच्छेदः किन्तु ये तत्कालभाविनी बुड्वविनेयाः सुभद्रान्तास्ते सर्वे विनीताः। ये चान्ये कालान्तरेण परिपक्वसन्ततयो भविष्यन्ति । तदर्थकरणायान्य एव तथागताः क्रमेणोत्पत्स्यन्ते । ततस्तद्धितसम्पादनायान्यमेव कश्चिद्दोधिसत्त्वमभिषिच्य परिनिर्वाति। अन्यथान्तरालेऽपरार्थत्तेर्निरर्थकमवस्थानं भवेदिति । तदयुक्तम् । बुद्धविनेयसत्त्वाभावस्यासिद्धत्वात् । सर्वलोकधातुषु क्रियान्तरविनेयजनभावाच्च । यथोक्तं प्राक् । न चानर्थकमवस्थानं तदर्थकरणायैवावस्थानात्। यथा शाक्याधिराजस्यैव सुभद्रप्रतीक्षया कतिपयक्षणावस्थानमभूत् । स्वल्पतरः स काल इत्यपि न सम्यक् । येनाभिप्रेतफलाहितचेतसो न कालस्य दैर्यमदैयं वा गणयन्ति । कालान्तरेण परिपक्वसन्ततिष्पपर एव समर्थो भविष्यतीत्यनुत्तरम्। यस्मादेवं बोधिचित्तोत्यादनेऽपि न यत्नः प्राप्नोति बहूनां लोकाभ्युद्धरणाशयानां व्यापारदर्शनादेतैरेव व्यापृताः किमत्र मया कर्तव्यमित्याशयात् । कारुणिकत्वादिमां गणनामकृत्वा दृत्तिश्चेत् । अत्यन्तावस्थाने करमागणानामारभन्ते । युक्ता हि तस्यामवस्थायामगणना सात्मीकृतत्वाहत्तिहेतोः करुणायाः।