________________
१३२
द्वितीयपरिवर्तः ।
वेत् । तदिदमज्ञापकं नहीदं पद्यते क्वचित् सर्वेष्वेव लोकधातुषु बुद्धरूपसन्दर्शनविनेयाः सत्वा न सन्तौति । अथ मतम् । नियमतो न सन्ति । सत्वे हि परार्थवृत्तेः किं परिनिर्वाणमिति । नन्विदमेव न सिद्धं परिनिर्वृत इति । यस्मादेकच धातौ बुद्धरूपसन्दर्शनविनेयासत्वे निर्वाणोपदर्शनविनेयजनानुग्रहविधानायोपदर्शितनिर्हतिरप्यन्यचाविकलं जातिबोधिधर्मचक्रप्रवर्तनाद्युपदर्शयतीत्ययं समयः ।
यथोक्तम् ।
न बुडः परिनिर्वाति धर्मोऽन्तयते न च । सत्त्वानां परिपाकाय निर्वाणं तूपदर्शयेत् ॥ इति अन्यच्चान्येऽपि तावत् साधवो बोधिभवभाविनः । कृपादारिद्र्येऽपि सत्यधनपालनाय प्रतिज्ञातार्थनिर्वहणमवश्यं तथा सर्वशक्तिपरिक्षयेणापि सम्पादयन्तो दृश्यन्ते । तथागतास्तु सकलसाधुजनचूडामण्यः समुत्तीर्णभवभयाः सात्मकृतहौसत्यकृपाधर्माणोऽप्रतिहतज्ञानशक्तयो न सम्पादयन्तौति कः पुनः सचेतनः श्रद्दध्यात् । प्रतिज्ञातश्च तैः सत्त्वानामत्यन्तदुःखनिर्मोक्षणम् । तथा हि भगवता पूर्व प्रणिहितम् ।
अनेन पुण्येन तु सर्वदर्शितामवाप्य निर्जित्य च दोषविद्विषः ।
जरारुजाम्मृत्युमहोर्मिसङ्कुलात्
-
-
समुद्धरेयं भवसागराज्ञ्जगत् । इति
न च जगच्छब्देन कतिपयसत्त्वग्रहणं न्याय्यम् । मा भूत् सर्वसत्त्वालम्बनाभावो महाकरुणाया इति । अतश्च याव