________________
व्यभिसमयालङ्कारालोकः ।
१३१
फलयोः धर्मो यत् प्रकृष्टाद्धेतोः प्रकृष्टं फलमप्रकृष्टाच्चाप्रकृष्टमिति । अन्यथा कारणप्रकर्षाभ्यां कार्ये तदसम्भवानोपकार्योपकारकभावो भवेत् । तद्गतभेदानपेक्षणात् । अस्ति च शास्तुरमितजीवितका रणमनवद्यामितपरबधविरत्यादौति कथमब्दशतमप्यनवस्थानम् । सर्वस्यैवास्य सर्वज्ञताफलमिति चेत् नाभिमुख्येन दौर्घकालजीवितफलसंवर्णनात् । प्राणातिपातविरतिदानपारमितयोर्ह्यन्वयव्यतिरेकाभ्यामनल्पमायुः फलमुपवर्णितम् । यश्च यस्या - भिमुख्येन हेतुर्वर्ण्यते स परिपुष्टप्रत्ययसमवधानेन । तदुत्पादयन्नेवान्यस्यापि यदि निमित्ततां प्रतिपद्यते तदा न दोषः । न त्वसद्दिनिश्चितं फलमपहायान्यदुत्पादयति । सक्कृदप्यतज्जनकत्वप्रसङ्गात् । किश्च धर्मतत्त्वाभ्यासवशादेव सर्वाकारज्ञतोपजायते। पुण्यसम्भारस्तु तस्य विशिष्टाश्रयो - त्यादनादानुगुण्यमापद्यते । तस्मात् साहसमाचं पुण्यपरिक्ष्याद्भगवतो मरणवर्णनम् । स्यान्मतिस्तथागतविनेयसत्त्वासम्भवात् परिनिर्वाणमिति । तदत्र चिन्त्यम् । किं बुद्धरूपविनेया एव सत्त्वा विद्यन्ते किं वा रूपान्तरविनेया अपौति । यदि पूर्वः पक्षस्तदा शक्रादिरूप - सन्दर्शनविनेयजनसम्भवात्ताद्रूप्येण किन्नावतिष्ठेत्। श्राश्रयन्ते हि दयाविधेयचेतसश्चेष्टान्तरमपि जनहितसम्पाद - नाय यथा भगवतैव चक्रवर्तिरूपमास्थितम् । न च शक्रा - दिरूपविनेयाभावोऽपि ज्ञापकाभावात् । शक्रादीनां परोपकाराभावप्रसङ्गाच्च। अपि च । एकत्र लोकधातौ बुद्धरूपविनेयजनाभावेऽपि लेोकधात्वन्तरेष्ठपरिमितेषु तद्भावात् किमस्य परिनिर्वाणम् । धात्वन्तरेऽपि ते न सम्भवन्तीति