________________
१३०
द्वितीयपरिवर्तः।
श्रावकाद्यसाधारणपरिनिर्वाणेन। एतच्च परिनिर्वाणमिष्टं निर्माणकायेन। कुत एतत्। आगमायुक्तितश्च । तथा हि ये समग्रस्थितिहेतवस्ते नित्यमुपरतस्थितिधर्माणो न भवन्ति। यथा संपूर्णदहनेन्धनादिसमग्रस्थितिकारणा धूमादयः । सम्यगासंसारमविकलस्थितिहेतवश्च बुद्धा भगवन्त इति । स्थितिविच्छेदव्यापकेनासमग्रस्थितिहेतुत्वेन विरुद्धस्य समग्रस्थितिहेतुत्वस्येह विधानाद्यापकविरुद्धोपलब्धिः। कथं हेतुसिद्धिरिति चेदुच्यते। स्थितिहेतुवैकल्यं सत्त्वार्थसंपादनशक्तिपरिक्षयान्महाकरुणाव्यपगमादायुःसंस्कारावस्थापनवशितानंशाचौवितेन्द्रियविपाककर्ममर्यादानाडुद्धविनेयसत्त्वाभावतो वा भवेत् । तत्र शास्तुरव्याहतशक्तिज्ञानप्रतिज्ञानान प्रथमो विकल्पः । को हि तस्यान्यथा खड्गादेविशेषः स्यात् । दीर्घकालाभ्यासेन श्रोत्रियजोटिङ्गनैर्घण्यवत्सात्मकृतत्वान्महाकृपायाः। न यत्नेन विना हानिर्यत्नस्तु नादोषदर्शनादिडतद्रसास्वादलम्पटस्य तस्यामेव बुझेः पक्षपातादिति। नापि द्वितीयो विकल्पः संभवति। ऋविपादाभ्यासकाष्ठावसानगमनात्। न विकल्पस्तृतीयोऽपि युक्तिसङ्गतः। तथा युक्तम् । “यस्य कस्यचिदानन्द चत्वार ऋद्धिपादा आसेविता भाविता बहुलौकता आकाङ्गन् स कल्पं वा तिष्ठेत् कल्यावशेष वा, तथागतस्यानन्द चत्वार ऋद्धिपादा आसेविता भाविता बहुलौकता आकाङ्क्षन् स तथागतकल्पं वा तिष्ठेत् कल्यावशेषं वेति"। जौवितफलकर्मसंक्षयोऽपि नानल्पकल्योपचितप्राणातिपातप्रतिविरतेरभ्यस्तानन्तोपायदानपारमितस्य गुरोः सम्भाव्यते। अयं हि हेतु