________________
अभिसमयालयारालोकः ।
१२६
सम्यक्सम्बधेऽपि प्रसङ्गस्तस्य सर्वाकारज्ञतायाः सर्वसत्त्वार्थोहेशेन विशिष्टत्वात्। अनेन च नवमी प्रत्येकबुद्धभूमिरुक्ता। ग्राह्यार्थविकल्पप्रहाणेन श्रावकभूमिमतिकम्योसंध्य ग्राहकार्थविकल्पाप्रहाणेनानुत्तरबुद्धभूमिमप्राप्यानधिगम्य । तथैव बुद्धो दक्षिणीय इति । न स्थातव्यमिति पदं विखनाह। बुड्न इत्यादि। पृथग्जनभूतमिति। अधिमुक्तिचर्याभूमिम् । अप्रमेयाणामित्यादि (p. 36, 21)। प्रत्यक्षादिप्रमाणेन प्रमातुमशक्यत्वादप्रमेयाणाम् । एकत्वादिसङ्ख्यारहितत्वेनासयानाम् । एतेन यच क्वचिदिनयादौ सुभद्रान्तप्रतिनियतसत्त्वार्थकरणमुक्तम् । तदाभिप्रायिकमित्युपपन्नम्। यदाच लोकधातावर्थक्रियामधिकृत्य तदक्तमन्यत्र तु निर्माणमेघैः सर्वलोकधातुषु सत्त्वार्थकारणादप्रमेयादिवचनमविरुद्धम् । अथवाऽन्यादेवेदं प्रतिविशिष्टं महायानसंज्ञितं यानान्तरं गाम्भीर्यादियुक्तमतोऽत्र विलक्षणैव देशनेति न यानान्तरेण सह विरोधो वाच्यः । तथान्यचाप्येवंजातीयकेष्वर्थेष्वयमेव परिहारो ग्राह्यः । सत्त्वानामर्थं कृत्वेति। केषांचिहानादिभिरभ्युदयधर्म निष्याद्य परिनिर्वाप्यति श्रावकादिनिर्वाणे कांश्चिन्त्रिःश्रेयसधर्मे प्रतिष्ठाप्य । श्रावकप्रत्येकबुद्धसम्यक्सम्बुद्धत्वनियतानिति यस्य कुशलनिर्वेधभागीयादेरधिगमानियमेनाभ्युदयनिःश्रेयसधर्मों प्राप्यते तत्र हेतौ स्थापनादन्यान्नियतानियतगोचस्थानिति यावत्। बुद्धभूमावि(p. 37, 1)त्यनेन समन्तप्रभा दशमी बुद्धभूमिः कथिता। बुद्धकृत्यमिति धर्मचक्रप्रवर्तनम्। बुड्डपरिनिर्वाणेनेति