________________
१२८
हितीयपरिवर्तः । अग्रधर्मार्थमाह। श्रोतापत्तिफलमित्यादि। असंस्कृतप्रभावितमिति (p. 36, 8)। तत्त्वतोऽनुत्पादस्वभावत्वान्मार्गस्यासंस्कृतनिर्जातं फलं कार्यम् । सामान्येनाभिनिवेशनिषेधार्थमेवं निर्दिश्य विशेषेणाह। श्रोतापन्नो दक्षिणीय इत्यादि। विशिष्टपुण्यक्षेत्रत्वेन मुख्यतो दक्षिणाहत्वादक्षिणीयः । सप्तकृत्वो भवपरम इति । कर्तव्यशेषतया परेण प्रकर्षेण यावत् सप्तवारान्संसारवासनिम्नः । अपरिनिष्ठितत्वादित्यादि। अपरिसमाप्तकार्यत्वात्सकदेकवारम्। इमम् मनुष्यलोकमागम्य संप्राप्य दुःखस्य रागादिलशगणस्यान्तं विनाशं करिष्यति। तत्रैवान्तराभवाद्यवस्थायाम् । इहैवेति। यस्मिन्नेव जन्मन्यहञातस्तस्मिन्नेवेत्यर्थः। अनुपधिशेषनिर्वाणधाताविति (p. 36, 16) । न विद्यन्त उपधयः स्कन्धाः सर्वरागादिप्रहाणावशेषोभूतत्वेन शेषा यस्मिन्निर्वाणे तत्तथोक्तम् । निर्वान्त्यस्मिन्सर्वे विकल्या इति निर्वाणं तथता। तदेव धातुस्तदालम्बनभावेनार्याणां निष्यत्तेतुरतस्तस्मिन्निति योजनीयम् । श्रोतापन्न इत्यादि। चतुर्विधफलस्थोपादानेन नान्तरोयकतया प्रतिपन्नकावस्थाश्चतस्रोऽपि ग्राह्यास्तेन श्रावकभूमिरष्टप्रकारा भवति । यस्य च पुगलस्य यावन्मात्रलशप्रकारप्रहाणेन प्रतिपन्नकत्वादिव्यवस्था तत्प्रागेवोक्तमिति न पुनरुपन्यस्यते। प्रत्येकबुड इत्याद्युद्देशपदं निर्दिशन्नाह। प्रत्येकबुद्धोऽतिक्रमेत्यादि। अात्मानमेकं प्रतिनिमित्तभूतं स्वबोधिं बुडवान् स्वयमिति प्रत्येकबुद्धः नैवं श्रावकेऽपि प्रसङ्गस्तस्य परोपदेशसापेक्षत्वात् । न च