________________
अभिसमयालशारालोकः ।
१२७
भावनानुपपत्तिस्तस्मादेव च कारणात् स्वरूपविरहे तादात्म्येनान्यथा चोपगमो न युक्तरूपः। सन्निहितविनेयजनविपर्यासनिराचिकौर्षया तु कथञ्चिदाधारभावेन निर्देशान्न व्यात्तिफलमास्थ्यमतो मूर्धाधिगमार्थं सर्वथानुपलम्भावना रूपादौनां विधेयेति । तथाचोक्तम् ।
अनुपलम्भेन तेषां मूर्धगतं मतम् ॥ ३॥ इति यावन्मनःसंस्पर्शजेति। अत्र यावद्दचनेन चक्षुर्विज्ञानादिसङ्ग्रहः । यावद्दिज्ञानधातुरित्यत्र यावदुपादानेनार्थत्वादिपरिग्रहः। क्षान्त्यर्थमाह। रूपं नित्यमनित्यमित्यादि (p. 35, 20)। अनित्यादिपदं व्याख्यातम् । तद्दिपर्ययेण नित्यादिपदं वाच्यम् । विपक्षप्रतिपक्षभेदेन दःखसत्याकारोपादानं प्रधानत्वात् सर्वाभिनिवेशनिवृत्तये कृतम् । शुभम शुभमिति (p. 36, 5) । शुभं प्रशस्तमशुभमप्रशस्तम् । एतच्च परिशिष्टसत्याकारसूचनपरम् । यद्येवं सर्वाकारविगमे स्वभावशून्यमेव तर्हि प्राप्तमित्याशङ्कावारणार्थमाह। रूपं शून्यमित्यादि। अशून्यवस्तुप्रतिषेधेन शून्यमित्युच्यते। अतो यथोदितविधिना वस्त्वभावान्न निर्विषयप्रतिषेधोऽयुक्त इति मतिः। एतदक्तम् । “क्षान्त्याधिगमाय रूपादौ नित्यमनित्यमित्यादिभिराकारैरुपलम्भयोगेन सर्वथावस्थानं न विधेयमित्येवम्भावनौयमि”ति । तथाचोक्तम् ।
क्षान्तयस्तेषु नित्यादियोगस्थाननिषेधतः। इति