________________
९२६
द्वितीयपरिवर्तः |
यस्मान्निर्वेधभागौयाधिगमपूर्वकं चतुःसत्यपरिज्ञानं तस्माहोधिसत्त्वेनोष्माधिगमार्थं रूपं रूपस्वभावेन शून्यम् । एवं वेदनादयो या च रूपस्य शून्यता या च वेदनादीनामयमेतदद्वैधौकारमित्यभेदतो भावनौयम् । अयवार्थो महासन्नाहसन्नद्धेन भवितव्यमित्यनेन कथितः । तथाहि मध्यमायां जिनजनन्यामुक्तम् । " कियता बोधिसत्त्वो महासन्नाहसन्नो भवति । इह सभूते बोधिसत्त्वः श्रन्यतया सर्वधर्मानभेदतः प्रत्यवेक्षत" इत्यादि ॥ तथाचोक्तम् ।
रूपादिस्कन्धशून्यत्वा च्छून्यतानामभेदतः ।
उष्माणः
इति मूर्धार्थमाह । न रूपे स्थातव्यमि (p. 35, 1 )त्यादि । उपलम्भयोगेनेति भावः । एषामेव पञ्चस्कन्धानां न चक्षुपौत्यादिना न स्मृत्युपस्थानेष्वित्यादिना न श्रोत आपत्ति - फल इत्यादिना च यथाक्रमं साश्रवोभयाना श्रववत्त्वेन प्रभेदं दर्शयतौति हारकार्थः । धात्वादौनाश्च स्वरूपलक्षणमभिप्रतौतमिति न लिखितम् । यावन्न मनोविज्ञान इत्यच यावद्ग्रहणेन घ्राणादिविज्ञानातिदेशं करोति । न बुद्धत्वे स्थातव्यमित्यनुत्तरसम्यक्सम्बुद्धत्वे यद्याधारात्मके रूपादी न स्थातव्यमेवं तर्हि व्यावृत्तिफलत्वात् सर्ववाक्यानां रूपादिकमिति तादात्म्येनावस्थानं प्राप्तमिति कस्यचिदाशङ्का निषेधार्थमाह । इति हि न रूपमित्यादि (p. 35, 12 ) । इतिशब्दस्तस्मादर्थे । हिशब्दः पूर्ववत् । तदयं वाक्यार्थो यस्मान्यायतोऽनुपलम्भभावनया रूपादेरसत्त्वादाधार