________________
अभिसमयालङ्कारालोकः ।
२२५
इति समुदयसत्याकाराः। प्रत्यर्थिकभूतत्वेन परतः। प्रत्यर्थिकभावस्य प्रलापधर्मत्वात् प्रलापधर्मत इति । तयोरेव दःखसमुदययोः प्रत्येक निर्वेदाकारौ। स्वरूपानवस्थितत्वेन चलतः। हेत्वनपेक्षस्य प्रकृत्यैव भङ्गुरत्वेन प्रभङ्गुरत इति । तयोरेव प्रत्येकं विरागाकारौ। ऐहिकामुत्रिकातङ्कस्थानत्वेन भयतः। रक्षःप्रभृतीनामुपक्रमगम्यत्वेनोपसर्गतः। महाभूतसंशोभाशनिपाताद्युपक्रमास्पदत्वेनोपद्रवतश्चेति तयोरेव प्रत्येकं निरोधाकाराः। एवञ्च कृत्वाऽऽर्यश्रावको निर्विदे विरागाय निरोधाय च प्रतिपन्नो भवतीत्यागमार्थः कथितः स्यात् । क्लेशविसंयोगत्वेन निरात्मतः। दःखप्रशमत्वेन शान्ततः। सुखशुचिवस्तुत्वेन विविक्ततः। नित्यहितवस्तुत्वेन शून्यानिमित्ताप्रणिहितानभिसंस्कारत इति निरोधसत्याकाराः। निर्वाणपुरपरिप्रापणार्थेन मार्गतः । निःशेषक्लेशप्रतिपक्षराशिभावेन न्यायतः। चित्तस्याविपर्यासप्रतिपादनार्थेन प्रतिपत्तितः। निरभिनिवेशनित्यस्थानगमनेन नैर्याणिकत इति मार्गसत्याकाराः। तथाच सत्यमुना क्रमेण महायाने केचिदाकाराः पर्यायतः केचिच्च स्वरूपतो निर्दिष्टा इति नाश्रावकमार्गत्वप्रसङ्गः । ततश्चैषां चतुरार्यसत्यसङ्गतानां स्वभावानुपलभभावनया मार्गज्ञताधिकारे श्रावकाणां मार्गों बोधिसत्त्वेन परिज्ञेय इति । अस्य चार्थसंक्षेपस्य पञ्चविंशतिसाहसिकायां स्पष्टमुपलभ्यमानत्वान्न विप्रतिपत्तिः कार्या। तथाचोक्तम् ।
चतुर्णामार्यसत्यानामाकारानुपलम्भतः । श्रावकाणामयं मार्गो ज्ञेयो मार्गज्ञतानये॥ २॥ इति श्रावकमार्गमभिधायैवमुष्मार्थमाह। तेन होत्यादि।