________________
१२४
द्वितीयपरिवर्तः । किञ्चिदप्युदकं प्रविशति तहत्त्वमवाङ्मुखो भूत्वाऽप्रतिपत्त्या मा खित्याह। साधु चेति । यथोत्तानाशुचिघटे यदकं प्रविशति तत् सर्वमशुचौभवत्यकार्योपगतं तहत्त्वं विपरीतप्रतिपत्त्या श्रुतमशुचौकुर्वन् मा शृण्वित्याह। सुष्टु चेति । यथोत्तानशुचिछिद्रघटं प्रविशत्युदकं न तु तिष्ठति तहत्त्वमस्थिरप्रतिपत्त्या मा शृणु किन्तु तथा शृणु यथा पटुतरानुभवहारेण चेतसि स्थिरीभवतीत्याह । मनसि कुर्विति । एवं हि श्रवणं सफलमित्याचार्यवसुबन्धुः । मध्यस्थोऽर्थांव भूत्वा शृण्विति यथाक्रममाह। साधु च सुष्ठ चेति। तथैव विचारको भूत्वा निरूपयेत्याह। मनसि कुर्विति। अनेन श्रोटलक्षणमावेदितमित्यार्यदेवः । भाषिष्येऽहं त इति तवानुग्रहाय प्रकाशयिष्यामि। कथं भाषिष्य इत्याह । यथेत्यादि। यथा येन प्रकारेण प्रज्ञापारमितायां श्रावकमार्गस्वभावायां स्थातव्यं प्रतिपत्तव्यम् । एवमभ्युपगम्येदानीमाह। शून्यतायामिति (p. 34, 20)। दुःखादिचतुरार्यसत्यसम्बन्धिनामाकाराणामनुपलम्भे सामान्योक्तावपि विशेषप्रतीतिः पूर्वाचार्यसम्प्रदायाद्यनुसारेण भवतौति नात्र सन्देहः । तदयं संक्षेपार्थः । तत्रोदयव्ययधर्मित्वेनानित्यतः । साश्रवस्य वस्तुनः प्रतिकूलत्वेन दुःखतः । एवं कृत्वाऽनित्योऽप्यार्यमार्गोऽनाश्रवत्वेनार्याणामप्रतिकूल इति नास्य दुःखत्वप्रसङ्गः। परेणात्मना शून्यत्वादनात्मतः। स्वयमनात्मत्वेन शान्तत इति दःखसत्याकाराः। फलस्येव बौज मूलहेतुत्वेन रोगतः। फलसमुदयत्वेन गण्डतः। दुःखप्रत्ययत्वेन शल्यतः। दःखपरम्पराप्रभवत्वेनात्यर्थघातादन्यत