________________
अभिसमयालबारालोकः ।
१२३
बोधिसत्त्वावस्थायामस्मदर्थे ब्रह्मचर्यचरणं जातमिति पूर्वकृतोपकारावबोधकारणेन तेषां प्रत्यपकारचिकौर्षया तदन्तिकेऽस्मदर्थं ब्रह्मचर्य चरन भगवान् बोधिसत्त्वावस्थायां प्रियतमः शाक्यमुनिरनुपरिगृहीतः। अस्माभिरपि श्रावकैः शाक्याधिराजस्य बोधिसत्त्वावस्थायामस्मदर्थे ब्रह्मचर्यचरणं जातमिति पूर्वकृतोपकारावबोधकारणेन भगवतः प्रत्युपकाराभिप्रायाधुष्मदन्तिकेऽनागतसत्त्वार्थं ब्रह्मचर्य बोधिसत्त्वाः प्रियतमाश्चरन्तोऽनुपरिग्रहौतव्याः। एवं हि वयं भगवतः कृतज्ञा इति। एवमनुपरिग्रहे किं भवतीत्याह । क्षिप्रमित्यादि। अभिसम्भोत्स्यन्तेऽधिगमिष्यन्ति । क्वचिदभिसम्बध्यन्त इति पाठः । स तु नहि तदानीमेवाभिसम्बुध्यन्तेऽनुपरिगृहौता इति, चिन्त्यमित्येके । अविकलकारणसम्पत्त्या कार्योदयविवक्षायां वर्तमाननिर्देश इत्यपरः। यथोक्तमेव ध्यामीकरणादिकं प्रतिपत्तव्यम् । तथाचोक्तम् । ध्यामौकरणता भाभिर्देवानां योग्यतां प्रति । विषयो नियतो व्याप्तिः स्वभावस्तस्य कर्म च ॥ १ इति
आधारादिकमेवमभिधाय श्रावकमार्गार्थमाह। अथ खल्वायुष्मानित्यादि। तेन हौति (p. 34, 19) । यस्मान्मार्गज्ञताधिकारे स्वमार्गपर्यन्तगतिमासाद्य यानान्तरविनेयसत्त्वार्थं प्रत्यसाक्षात्करणेन सहेतुकमार्गोपदेशपरिचयकौशल्यात सर्वमार्गाः परिपूरयितव्या बोधिसत्त्वेन तस्मात् कारणाच्छावकमार्ग भाषिष्येऽहं कौशिक शृण्विति सम्बन्धः । यथा देवे वर्षत्यप्यवाङ्मुखे घटे न