________________
१२२
द्वितीयपरिवर्तः।
इत्यनेन यथासम्भवं पञ्चशिक्षापदादिकत्वं कथयति । बोधायानुत्तरबोधिनिमित्तम् । चरन्नित्यासंसारं सत्त्वार्थकरणप्रत्तत्वेनोत्पादितबोधिचित्तस्य सर्वथा मार्गज्ञतया क्लेशाग्रहाणमित्यस्याः स्वभावेन क्लेशवशितामासाद्य दीर्घकाल प्रतिपद्यमानः सन्नित्यनेन स्वभावः कथितः। अन्यथाऽपरिपूर्णैव बोधिचर्या स्यादिति मतिः। अववदितो यथाववादेन दानादिषु पारमितासु। अववादः कृतोऽववादितोऽववादं दत्त्वाऽववादकः कृत इति व्युत्पत्तिः। क्वचिदववादित इति पाठः सुगमः। अनुशिष्टोऽनुशासन्या। तत्रेति तेषु श्रावकेषु क्वचिदवस्थायाञ्चरतेति । यथोक्तस्वभावस्य भूतकोटेरसाक्षात्करणेन प्रज्ञोपायकौशलेन च दानादिभिरपरिगृहीतासमादापितापरिमोचितसत्त्वपरिग्रहणसमादापनपरिमोचनादिकर्म कुर्वता सम्भृतसम्भारेणेति कारित्रमावेदितमन्यथाऽधिगमानुपपत्त्या। अनुत्तरं ताथागतं ज्ञानमुत्पादितमधिगतम् । एवं दृष्टान्तमावेद्य दान्तिकमर्थमाह। एवमित्यादि (p. 34, 13) । एवमिति तथेत्यर्थः । अपिशब्दान्न केवलं भगवताऽस्माभिरपि महाश्रावकैरववादानुशासनौभ्यामेवानुग्रहपरौन्दनान्यायेनानुपरिग्रहौतव्या अनुपरिवारयितव्याश्च । तथोत्तरोत्तरपरिपाकाथ संपरिग्रहीतव्याः संपरिवारयितव्याश्चेति । चशब्दोऽवधारणार्थः। कोऽत्र प्रतिबन्धो यथा भगवान् पूर्व बोधिसत्त्वावस्थायां श्रावकैरनुपरिगृहौतो भवद्भिरपि श्रावकैरन्ये बोधिसत्त्वास्तथानुपरिग्रहौतव्या इति। तत्कस्य हेतोरित्याशङ्कयाह। अस्माभिरपौत्यादि (p. 34, 15)। अयमाशयो यथा पूर्वश्रावकैः स्वबुवानां