________________
अभिसमयाला
१२१
त्पुस्तके यदिति पाठः । यस्मात्त्वमेकयानदेशनया बोधिसत्त्वानां स्वपक्षस्थिरीकरणेनोत्साहं ददासि नानानयवादिनस्वार्यासङ्गपादास्तदनुसारिणश्चान्यथा व्याचक्षते । येत्ववक्रान्ता इत्यादि वाक्यं नौतार्थमपि तु खल्चित्यादिवचनं नेयार्थमतो व्याप्त्यर्थो बुद्धगोत्रकानधिकृत्येति । तथा।
आकर्षणार्थमेकेषामन्यसन्धारणाय च । देशिता नियतानां हि सम्बद्धैरेकयानता ॥ इत्यादिना च सूचान्तरविरोधं परिहरन्ति । पूर्वस्मिन्नेकयानदेशनापक्षे ये श्रावकादिबोध्यधिगमपूर्विकां महाबोधिमधिगच्छन्ति ते तावत्कालं व्यपदेशेन श्रावकादिगोत्रका व्यपदिष्टाः। प्रथमतस्तु प्रमुदिताभूम्यधिगमानुक्रमेणानुत्तरबोधिभाजो महायानगोत्रका इति गोत्रभेदो न विद्यत इत्यलं प्रसङ्गेन । इदानौं मार्गज्ञतायाः स्वभावं कारिवञ्च कथयन्नाह । कृतरित्यादि। निष्पादितोपकारस्मरणदक्षाः कृतज्ञाः। ननु विशेषमार्गादिनाऽपरिसमाप्तकार्यत्वात् क्रियमाणोपकाराः कथमेवं वदन्तीति । तत् कस्य हेतोरित्याशङ्कयाह। पौर्वकाणां होत्यादि (p. 34, 9) पूर्वका एव पौर्वकाः। प्रज्ञादेराकृतिगणत्वेन स्वार्थे तद्धितविधानात्। अस्मदर्थेऽस्माकं प्रयोजनेन कृतेनेत्यर्थः। श्रावकयानपुरःसरस्य धर्मचक्रस्य प्रवर्तनादिति मतिः। यथेत्यस्मदर्थ इति सम्बन्धो यदि वा यथाऽववदित इति । ब्रह्मचर्यमब्रह्मचर्यादिरतिः ।
वृत्तस्थः श्रुतचिन्तावान् भावनायां प्रयुज्यते।
16