________________
१२०
द्वितीयपरिवर्तः।
नत्वनावधातूत्यत्तिरिति कथं विरोधस्तस्मात् सर्वस्मिन् याने सर्वथैकमहायानसमवसरणदेशनैव न्याय्या लक्ष्यते । एवञ्चार्यसद्धर्मपुण्डरीकसत्यकोपरिवादिषु पाठः सुनौतो भवति। "भविष्यसि त्वं शारिपुचानागतेऽध्वनि सम्यक्सम्बुद्धः”। तथा “एकं हि यानं द्वितीयं न विद्यते" इत्यादि। पुनरुत्वासपरिवर्जनाथ केषाञ्चिद्दशधर्मकरत्नमेघादिधेकयानदेशनार्थो नौतार्थ इति भगवतैवं स्पष्टीकृतः । लङ्कावतारे चोक्तं " नास्ति महामते श्रावकयानिकानां श्रावकयानेन मोक्षोऽपि तु महायानपर्यवमानिका एव ते” इत्यादि। तथार्यनागार्जुनपादास्तन्मतानुसारिणश्चैकयाननयवादिन आहुः ।
लञ्चा बोधिद्दयं ह्येते भवादुत्वस्तमानसाः । भवन्त्यायुक्षयात्तुष्टाः प्राप्तनिर्वाणसंजिनः ॥ न तेषामस्ति निर्वाणं किन्तु जन्म भवत्रये । धातौ न विद्यते तेषां ते ऽपि तिष्ठन्त्यनाश्रये ॥ अक्लिष्टाज्ञानहानाय पश्चादुद्धैः प्रबोधिताः । सम्भृत्या बोधिसम्भारांस्तेऽपि स्युर्लोकनायकाः ॥ इति। तदेवं सर्वाकाररमणीयतत्त्वनिर्देशादार्यसुभूतौ समुपजातबहुमानानां प्रसादोपहणाय भगवानाह । साध्वित्यादि (p. 34, 5)। अगोचरोऽप्येवमर्थो विस्पष्टवाग्भिः प्रत्यक्षेणेव प्रकाश्यत इति विस्मये साधु साध्विति हिरभिधानम् । यदि वा स्वविवक्षितस्य व्यक्तं द्योतनात् प्रहर्षे पुनः साधुरिति वचनं शोभनमेवैतद्यबदसौति। खलुशब्दोऽवधारणे। यशब्दो निपातो यस्मादर्थे वर्तते। क्वचि