________________
व्यभिसमयालङ्कारालोकः ।
यदि ते महाश्रावका बोधिचित्तान्युत्पादयेयुस्तान्यनुमोदेऽहमिति सम्बन्धः । कथं प्रतिक्षिप्यानुमोदे स चेत्याह । नाहमित्यादि । यदि नाम विनेयविशेषापेक्षयाऽऽभिप्रायिकं वचनं प्रागुक्तवानहम् । तथापि न पुनः कुशलमूलस्य बोधिचित्तप्रभवबुद्धत्वस्यान्तरायमसम्भवित्वेन विच्छेदं महाraकाणां करोमि । कथं न करोमीत्याह । विशिष्टेभ्य इत्यादि । यस्माद्दिशिष्टेभ्यः कल्याणमित्रादिभ्यो विशिष्टतमा एव बोधिचित्तादयो धर्मा अध्यालम्बितव्याः प्रतिकांशितव्याः । दग्धपुनर्भवक्लेशानामपि च श्रावकप्रत्येक जिनानां कथं तासु तासु गतिषु जन्म न विरुध्यत इति न वक्तव्यम् । यस्माद्योऽनन्यसत्त्वनेयस्य जन्तोरभिरतिपूर्वको हौनस्थानपरिग्रहः । स सम्यगात्मस्नेहवतो दुःखसुखत्यागाप्तिवाञ्छापूर्वकस्तद्यथा कामिनां स्त्रौगुणपरिग्रहस्तथा चेश्वराद्यनधिष्ठितस्य जन्तोरभिरतिपूर्वको ग्रहोऽयं गर्भस्थानपरिग्रह इत्येवं स्वभावहेतुना क्लेशानां चैधातुकोत्पत्तिं प्रति सामर्थ्यं प्रतिपाद्यते । महाश्रावकास्तु सोपधिनिरुपधिसंज्ञकं बोधिद्वयं लब्धा भवादुरुकरुणाप्रज्ञावैकल्येनो त्रस्तमानसाः पूर्वावेधाक्षिप्तायुः संस्कार परिक्षयान्निर्वाणासम्भवेऽपि प्रदौपनिर्वाणप्रख्यनिर्वाणसंज्ञिनो व्यतित्तचैधातुकजन्मानच्युतिचित्ता नन्तरं परिशुद्धेषु बुद्धक्षेत्रेष्वनाश्रवे धातौ समाहिता एव पद्मपुटेषु जायन्ते । ततस्तेऽमिताभादिसम्बुद्धभास्करकरैरक्लिष्टतमोहानये प्रबोधिता बोधिचित्तमुत्पाद्य मुक्त्यवस्थायां नरकादिचारिकामिव गतिं गच्छन्तः क्रमेण बोधिसम्भारं सम्भृत्य लोकगुरवो भवन्ति इत्यागमान्निश्चितमिति । पुनर्भवक्लेशकारणनिवृत्त्या चैधातुकोत्पत्तिकार्यं निवर्तते
।
११८