________________
११०
द्वितीयपरिवर्तः । त्ववक्रान्ता (p. 33, 17) इत्यादि। तुशब्दोऽवधारणे। य एवावक्रान्ताः सर्वथाऽधिगताः सम्यक्त्वनियामं स्वश्रावकादिदर्शनादिमार्ग न ते भव्या योग्या बुद्धो भवेयं जगतो हितायेत्यनुत्तरसम्यक्सम्बोधिनिमित्तं चित्तमुत्पादयितुम् । यत्र बालाऽपि जनः शक्तस्तत्र कथं विदितार्यमार्गाः श्रावका न शक्ता इति । तत्कस्य हेतोरित्याशङ्याह । बड्वसौमान इत्यादि। स्वमार्गनिर्दग्धनिःशेषवैधातुकोत्यत्तिक्लेशावरणतया यस्मात्ते श्रावकाः संसारस्रोतसो जन्मप्रवाहाइडसीमानोऽनुत्पत्तिधर्मतया कृतमर्यादास्ततोऽभव्या एव ते पुनः पुनरभीक्ष्णं संसरणाय जन्मग्रहणाय । ततश्चानुत्तरायां सम्यक्सम्बोधौ चित्तमुत्यादयितुमभव्या इति सम्बन्धः । एतदुक्तम् ।
यावत् संसारवासस्था भवन्ति वरसूरयः । तावत् सत्त्वार्थमतुलं शक्ताः कर्तुमनिवृताः ॥ इति वचनात्। पुनर्जन्मग्रहणे सति दानादिना सत्त्वार्थक्रियायामभ्यासाहोधिचित्तं सुविशुद्धं तथागतपदप्रापकमुपजायते । अतो महाश्रावकाः समुच्छिन्नक्लेशतया पुनजन्माख्यमूलकारणनिवृत्त्या तादृग्विधं चित्तरत्नं कार्यात्मकं नोत्पादयितुं शक्ता निर्हेतुकत्वप्रसङ्गात्। बालाः पुनयथोक्तविकलकारणसद्भावेन शलवन्त्येवेति युक्तरूपमेवैतवचनं कथमाभिप्रायिकमित्याह। अपि त्वित्यादि। अपितुशब्दो निपातः प्रस्तावेऽथशब्दार्थे वर्तते। तेषामिति महाश्रावकाणां वक्ष्यमाणानुमोदनामनस्कारेणानुमोदेऽनुमोदयामि । किमनुमोदसे । इत्याह । स चेदित्यादि।