________________
अभिसमयालबारालोकः।
११७
ध्येनेत्येके। कायवाङ्मनोव्यापाररश्मिभेदादाऽनुभावादिपदत्रयमित्यपरे। अभिभूतो ध्यामौकृतोऽभूत्। अथेत्यादि (p. 33, 9) । एवं मलिनीकरणेन लोकपालत्वाद्यभिमाननिरासानन्तरमित्यथशब्द अानन्तर्ये। इमानौति प्रत्यक्षरूपाणि । अन्तिकादिति सकाशात् । प्रज्ञापारमितामिति मार्गज्ञतात्मकाम्। श्रोतुकामानौति । श्रौतेन ज्ञानेनावधारयितुकामानौति । केषां सम्बन्धिनौमित्याह । बोधिसत्त्वानां महासत्त्वानामिति। उपदेशमित्यादि। श्रवणावस्थायां ग्रन्यधारणाय शिक्षणमुपदेशः । चिन्तावस्थायां गृहौतार्थाविस्मरणमववादः। भावनावस्थायां पूर्वोपार्जनानुशासनौ। एतत् सर्व बोधिसत्त्वानाम् । कथं श्रोतुकामानौत्याह। तत्कथमित्यादि। स्थातव्यमित्यादि (p. 33, 13)। पदवयं यथाक्रमं श्रवणाद्यवस्थासु वेदितव्यम् । एवमभ्यर्थितः सुभूतिर्विगताभिमान एवोत्पादित बोधिचित्तो मार्गज्ञताधिगमे भव्य इति विषयप्रतिनियमहारेणाह। तेन होत्यादि। यस्मादेव श्रोतुकामानि तेन कारणेनोपदेक्ष्यामि कथयिष्यामि। चित्तमिति। शून्यताकरुणागर्भमिति भावः। त्रियानव्यवस्थानमाभिप्रायिक न लाक्षणिकमिति न्यायादनुत्तरसम्यक्सम्बोधिपर्यवसान एव सर्वो जन इत्यतो वीतरागेतरयोगिनापि बुद्धत्वप्राप्तये मार्गज्ञता भावनौयेति व्याप्तिमादर्शयितुं श्रावकयानादिप्रतिपन्नानामनुत्तरसम्यक्सम्बोध्यभाजनत्वेनानियतगोत्राणां प्रथमतो महाबोधावाकर्षणार्थमन्येषाञ्च प्रत्तानां सन्धारणार्थमित्याभिप्रायिकं वचनमाह। ये