________________
द्वितीयपरिवर्तः। |
।
सर्वाकारजताधिगमो न विना मार्गज्ञतापरिज्ञानेनेति मार्गज्ञतां वक्तुमाह । तेनेत्यादि (p. 33, 1 ) । तेन समयेन मार्गज्ञताकथनकाले पुनर्भूयोऽपि शक्रः सन्निषण इति सम्बन्धः । किम्भूत इत्याह । देवानामिन्द्रः प्रभुस्तस्यामेव यथोपवर्णितायां पर्षदि सन्निपतितः । कृतकायादिसामग्रौको विहितसम्यक्प्रणामो वा स्वासने निषणः समुपविष्टः । कुबेरष्टतराष्ट्रविरूपाक्षविरूढकाश्चत्वारो लोकपालाः। सहे लोकधातावा समन्तात् पतिः सहापति - र्नायको देवपुत्रो ब्रह्मापि चतुर्थध्यानप्रभवः । " संवर्तन्यः पुनस्तिस्रो भवन्त्यग्न्यम्बुवायुभिरि” ति न्यायाद्यथाक्रमं प्रथमादिध्यानत्रयस्य विनाशेन तस्यैव चिरस्थायितया पतित्वाभिमानादित्येके । अपरे त्वन्यथान्यतर सत्त्वस्याभास्वरदेवनिकायाच्युत्वैकाकिनः श्रन्ये ब्राह्मे विमाने समुत्पन्नस्या होवतान्येऽपि सत्त्वा इहोपपद्येरन्निति प्रणिधानानन्तरं पुण्यादिक्षयादपरेषां काकतालीयन्यायेन तत्र समुत्पादे ऽहमेषामौश्वर इत्याद्यभिमानात्प्रथमध्यानतृतीयभूमिको ब्रह्मा सहापतिरिति वर्णयन्ति । तचैवं पर्षत्सन्निपाते मार्गज्ञतोत्पत्तिं प्रति योग्यताऽपादनाय देवादीनां स्वकर्मजप्रभायास्तथागतप्रकृतिप्रभाभिर्मलिनीकरणता निहतमानसन्तानेऽधिगम उत्पद्यत इति ज्ञापनाय कृताऽतो वक्रोक्त्याधारः कथित इत्याह । योऽपि चेत्यादि । स्वकर्मविपाकजः स्वशुभकर्मवासनानिर्जातोऽवभासो रश्म्यालोकः । चशब्दात् कायादिरपि । अनुभावेन शक्तिविशेषेण । तेजसा प्रभारूपेण । अधिष्ठानेन सान्नि
1
१९६