________________
अभिसमयालधारालोकः ।
११५
सत्त्वस्यासत्येव भावता सत्त्वासद्भावता। सत्त्वस्य तत्वोत्पत्त्यादिभिर्विविक्तता सत्त्वविविक्तता। सत्त्वस्य चित्तातिक्रान्तत्वमचिन्त्यता सत्त्वाचिन्त्यता। सत्त्वस्याप्रतिपत्तिरनभिसम्बोधनता सत्त्वानभिसम्बोधनता। सत्त्वोऽयथाभूतार्थोऽलोक इत्यभिसम्बोधनता सत्त्वायथाभूतार्थाभिसम्बोधनता। एतच्च षट्पदकं यथासङ्ग्यं चतुर्विधनिबंधभागीयदर्शनभावनामार्गावस्थासु ग्राह्यम् । एवं न्यायतो ऽमनस्कार एव मनस्कार इत्यभिधायोपसंहरन्नाह । अनेनेत्यादि (p. 32, 18)। एवंरूपेणानन्तरोक्तस्वभावेनानेन मनसिकारेणाविपर्यासप्रवृत्तत्वादिच्छामि विहरन्तं बोधिसत्त्वमनेन च प्रज्ञापारमितात्मकेन विहारेण मार्गनिर्याणलक्षणेनेत्येवं निर्यातव्यवस्तुषु प्रतिविशिष्टान्यधर्माभावेन सर्वधर्मानुपलम्भतया निर्याणादेवमेभिरष्टाभिर्निर्याणेनिर्याणप्रतिपत्तिर्वेदितव्या। तथा चोक्तम्।
उद्देशे समतायाञ्च सत्त्वार्थे यत्नवर्जने । अत्यन्ताय च निर्याणं निर्याणं प्राप्तिलक्षणम् ॥७३॥ सर्वाकारज्ञतायाञ्च निर्याणं मार्गगोचरम् । निर्याणप्रतिपज्ज्ञेया सेयमष्टविधात्मिका ॥७४॥ इति सर्वाकारज्ञातैवानुष्ठीयमानत्वेन चर्या चित्तोत्पादादिरूपेण हेतुफलात्मकेन निःशेषाकारतया समस्तवस्तुपरिज्ञानात्तथागतानां सम्बन्धिनौ पुनःपुनः परिवर्ततेऽत्रेत्यसौ ग्रन्थपरिच्छेदः सर्वाकारज्ञताचर्यापरिवर्तः। अभिसमयालङ्कारालोकायां प्रज्ञापारमिताव्याख्यायां सर्वा
कारज्ञताचर्यापरिवर्तो नाम प्रथमः ॥