________________
११४
प्रथमपरिवर्तः।
महावस्थानमिष्यते । तदातिप्रसङ्ग इत्याह । यदौत्यादि (p. 32, 1)। यदि च मनसिकारेणाविरहितोऽपि प्रज्ञापारमिताविहारेणाविरहित इष्यते। मार्गनिर्याणावस्थायां तदैवं सति प्रज्ञापारमिताविहारेणाविरहिताः सर्वसत्त्वा इति प्राप्तं तेषां मनस्कारसद्भावात्। ननु प्रज्ञापारमिताविहारोऽनेकयत्नसाध्योऽतः कथं तेनाविरहिताः सर्वमत्त्वा इति। तत्कस्य हेतोरित्याशङ्मयाह । सर्वसत्त्वा अपि होत्यादि (p. 32, 7)। मनसिकारेणेत्यवाविरुद्धेनेति शेषः। एवं मन्यते सन्नपि प्रज्ञापारमिताविहारस्तविरुद्धविपर्याम प्रत्तमनस्कारसद्भावात् सर्वसत्त्वानां न व्यवस्थाप्यते । यदा पुनस्त्वया मार्गनिर्याणावस्थायामुभयोः महावस्थानेन विरोधी नाभ्युपगतस्तदा कादाचित्कविरोधानुपपत्तेः। यस्मादविरुद्धेन मनस्कारेण सर्वसत्त्वा विहरन्ति । तस्मात् प्रज्ञापारमिताविहारेणाविरहितत्वप्रसङ्ग इति । मनस्कारस्य यथारुतत्वे स्यादयं दोष इत्याह । साध्वित्यादि। किं त्वमनस्कार एव मनस्कारोऽभिप्रेतस्तत्र च शब्दप्रत्तिमात्रेण यद्यपालम्भः क्रियते तदाह । अपि तूपालश्ये त्वेत्यादि। यतो मनस्कारलक्षण एवार्थो भूतपदाभिधानेन यथारुताभिधानेनायुष्मता शारिपुत्रेण परिगृहीतस्तस्मात् त्वामध्येवंजातीयकेषत्तरत्रवाक्येषु परिप्रश्नयिष्यामि । यथारुतशब्दार्थग्रहणे तुल्यो दोष इत्यनेनादर्शयति । कथं पुनरमनस्कार एव मनस्कारो न तु यथारुत इति। तत्कस्य हेतोरित्याशङ्याह। सत्त्वास्वभावतयेत्यादि। सत्त्वस्य प्राणिनो मायोपमता सत्त्वास्वभावता। तया हेतुभूतया तदव्यतिरेकात् मनस्कारास्वभावता ।