________________
अभिसमयालङ्कारालोकः ।
ऽनन्तरं मार्गनिर्याणं दर्शयन्नाह। साध्वित्यादि (p. 31, 10)। सुभाषितत्वार्थत्वे साधु साधु सुभूते किन्तु कतमैषा सर्वधर्मानिश्रितपारमिता यया बोध्यधिगमः। स्वरूपमावेदयन्नाह। प्रज्ञेत्यादि। यानत्रयसङ्ग होता। सार्वयानिकी सर्वभूमिपारमिता। बोधिपक्षधर्मस्वभावेन मार्गलक्षणा प्रज्ञापारमिता। सर्वधर्मेष्वनिश्रिततया सर्वधर्मानिश्रितपारमितेत्युच्यते। एवंविधप्रज्ञापारमितायां मार्गात्मिकायां को निर्यातीत्याह । इति होत्यादि । इत्येवमनन्तरोक्तेन क्रमेण चित्तावलौनत्वं चित्तसङ्कोचः । तदेवाह। कांक्षेत्यादिना (p. 31, 16)। कांक्षायितत्वं संशयज्ञानं किमयमन्यो वेति मार्गान्तरकांक्षणात् । धन्वायितत्वमज्ञानम्। तत्स्वरूपाप्रतिपत्तिः। चित्तस्यान्यथात्वं मिथ्याज्ञानं विपरीतार्थप्रतिपत्तिः। एतच्च सर्वमविद्यैवेति भावनाप्रहेयं दर्शयति । विहरत्यनेन मार्गस्वभावेन प्रज्ञापारमिताविहारेण चतुर्भिरौर्यापथैश्चित्तकर्मण्यताऽपादनात्। अविरहितश्चानेन मनसिकारेण मार्गात्मकेन प्रतिसंलौनावस्थायाम्। ननु मनस्कारश्चेतस आभोग आलम्बने चित्तधारणकर्मकः । प्रज्ञापारमिताविहारश्च तदिपरीतस्वभाव इति कुतोऽनयोः सहावस्थानमित्यभिप्रायेणाह। कथमित्यादि (p. 31, 20)। यो मनसिकारेणविरहितः स कथं प्रज्ञापारमिताविहारेण विहरेत् । परस्परविरोधान्नैवेत्यर्थः । तदेव कथयन्नाह । यदि होत्यादि। यदि मनस्कारेणाविरहितस्तदा प्रज्ञापारमिताविहारेण विरहितः। अथ प्रज्ञापारमिताविहारेणाविरहितस्तदा मनस्कारेण विरहितः। अथ विरुद्धयोरप्येकत्र
15