________________
२१२
प्रथमपरिवर्तः ।
प्रतिभातीत्याह। एवमेवेत्यादि। एवमेव यथादर्शनमशक्यापहवत्वात् संकृत्याऽस्तु यथा तथा। अथवा एवमेवाविचारितेन रूपेणालौकमेव प्रतिभाति । अत्यन्तं प्रतिभातीत्यपगतशाश्वतोच्छेदरूपं प्रतिभासते। सम्यग्धर्मतत्त्वकथनात्स्तुत्यर्थमाह। धार्मकथिकानामित्यादि (p. 30, 22)। स्थापयितव्यो धारयितव्यः । ननु धर्ममेघभूम्यधिगमाभावे श्रावकोऽपि कथमेवमिति। तत्कस्य हेतोरित्याशङ्याह । तथाहीत्यादि (p. 31, 1)। यतो यत इति। आद्यादित्वेन सप्तम्यन्तात्तसिस्तथा ततस्तत इत्यपि। यत्र यत्र परिप्रश्नौक्रियते तत्र तत्र परिहारदानेन निःसरति। धर्मतायाः स्वाधिगमलक्षणाया व्यवस्थापनान्न चलति । ताञ्च धर्मतामागमरूपामधिगमेन न विरोधयति। नित्यं समाहितज्ञानाभावेऽपौति शेषः। तथागताधिष्ठानमादर्शयन्नाह । धर्मतैषेत्यादि (p. 31, 5)। अनिश्रितधर्माणामनभिनिविष्टधर्माणां तथागतश्रावकाणाम् । धर्मतैषा प्रतीत्यसमुत्पादनियामता। कासौ धर्मतेत्याह । रूपादिलक्षणवस्तूपलम्भसद्भावेऽपि कथं पुनरनिश्रितधर्माणः श्रावकाः इति । तत्कस्य हेतोरित्याशङ्कयाह । यथापौत्यादि। एकानेकस्वभाववैधूर्येणानिश्रितत्वादनिश्रयाहत्वात्। सर्वधर्माणामनिश्रितधर्माणः श्रावकाः प्रज्ञापारमिताभाषणं प्रत्यधिष्ठा एवाऽन्यथा सम्यग्देशनानुपपत्तेः। पुगलनैरात्म्यमात्रप्रभावितत्वेनैवंविधधर्माधिमोक्षवैकल्यात्तथागताधिष्ठानेनेति शेषः। तदपि सर्वाकारजतानिर्याणं विशेषमार्गादिना विना न भवतीत्यतो