________________
अभिसमयालङ्कारालोकः ।
१११
द्योतकः। प्रतिप्रश्नेन परिहारार्थमाह। किं पुनरायुष्माञ्छारिपुत्रेत्यादि (p. 30, 11)। उत्पादस्यासत्त्वात्। किमनुत्पन्नो धर्म उत्पन्न इत्यभिधीयते। एवमिति चेदभिधीयताम् । न हि नामान्तरकरणादस्तुनोऽन्यथात्वमतः कथमुत्पन्नेन धर्मेणानुत्पन्ना प्राप्तिः प्राप्यते । अथानुत्पन्न एव धर्मोऽनुत्पन्न इत्यभिधीयते त्वया तथापि दोष एव। यो धनुत्पन्नो धर्मः मोऽनुत्पन्न एवाविद्यमानो ऽतः कथमनुत्पन्नेन धर्मेणानुत्पन्ना प्राप्तिः प्राप्यते। एतदक्तम्। “तत्त्वेन प्राप्यप्रापकयोरसत्त्वात्कृतोऽयत्नेन प्राप्तिः। संकृत्यापि निरन्तरं दौर्घकालभावनयाऽष्टम्यादिभूमावनाभोगवाहिज्ञानलाभात् कथमयत्नेन प्राप्तिर्येन मुक्ताः स्यः सर्वदेहिन" इति । ननु संतिपरमार्थसत्याश्रयेणोत्पादानुत्पादव्यवस्थायां तवाप्येष पर्यनुयोग इत्यभिप्रायेणाह। उत्पाद एव धर्मोऽनुत्पाद उताहोऽनुत्पादो धर्मोऽनुत्पाद इति । उद्भावनामंकृत्यापि वागदाहारवर्जितं तत्त्वमिति मत्त्वाऽह । उत्पाद इत्यादि (12. :30, 15)। दयोरलौकत्वान्न तत्त्वतो जल्पितुं प्रतिभातौति भावः। अनुत्पादस्य परमार्थत्वादित्यभिप्रायेणाह। अनुत्पादोऽपौत्यादि। परमार्थानुकूलत्वात्परमार्थाऽयमुच्यते। अनुत्पाद इत्याह। अनुत्पाद एवायुष्मञ्छारिपुत्र जल्प इति । अनुत्पादोऽपि जल्यत इति जल्यः । प्रपञ्चा विकल्प इति यावत्। अभिसमयकाले तर्हि किं प्रतिभासत इत्याह । अनुत्पाद एवेत्यादि। सर्वविकल्पविनिर्मुक्तोऽग्राह्य एवानुत्पादो ग्राह्यः प्रतिभाति । अग्राहकमेव ग्राहकं प्रतिभानम् । कथं पुनरतद्रूपोऽपि तद्रूपत्वेन