________________
प्रथमपरिवर्तः ।
११०
अतः
त्याह । किं पुनरित्यादि (p. 29, 8 ) । बोधिसत्त्वकरका धर्मा मार्गजतादिस्वभावा बोधिसत्त्वधर्मा अप्यनुत्पादः । न्यायस्य तुल्यत्वात् । तदेवाह । बोधिसत्त्वेत्यादिना । यदेव पृष्टं तदेव परिहर्तव्यमन्यथाऽश्रोतृसंस्कारकं वाक्यम् । प्रादेशिक श्रन्यत्वपरिहारार्थमुताहो सर्वज्ञतापौत्यादिनोत्तरोत्तर प्रश्नपरिहारेण शून्यतायाः सर्वविषयत्वमाह । तत्र सर्वज्ञता बुद्धत्वम् । बुद्धकरका धर्माः सर्वाकारज्ञतालक्षणाः धर्माः । अनुत्पन्नार्यमार्गो बालः पृथग्जनः । तन्निबन्धना रागादयो धर्माः पृथग्जनधर्माः । क्रमेणैवं सर्वधर्मानुत्पादाभ्युपगमं कारयित्वा दोषमापादयन्नाह । यद्यायुष्मन्नित्यादि (p. 30, 2 ) । ननुशब्दोऽक्षमायाम् । अनु-प्राप्तैव सर्वज्ञताऽयत्नेनेति शेषः । कचिदयत्नेनेति पाठः स्पष्ट एव। एतदुक्तम्। “सत्कृत्य निरन्तर दौर्घकालभावनयाऽनुत्पादाधिगमेन बुद्धत्वमनुप्राप्तव्यम् । यदि पुनः सर्व एव धर्मोऽनुत्पन्नस्तदाऽयत्नेन मर्वाकारज्ञताऽनुप्राप्तैव ततश्च मुक्ताः स्युः सर्वदेहिन” इति । यद्यनुत्पादे प्राप्यप्रापकधर्मा विद्यन्ते, तदाऽयत्नेन प्राप्तिरिति प्रसज्यते । यावता नैवमित्यभिप्रायेणाह । नाहमि 30.7त्यादिना । न्यायेनानुत्पन्नस्य धर्मस्य प्राप्यप्रापकस्य न प्राप्तिं ग्रहणं प्रयोगावस्थायामिच्छामि । नाप्यभिसमयमधिगमं मौलावस्थायाम् । तदेवाह । नापि इत्यादिना । नैवानुत्पन्नेन प्रापकेण धर्मेणानुत्पन्ना प्राप्तिः प्राप्यतालक्षणा प्राप्यते । उभयोरेव नौरूपत्वात्। अन्यतरानुत्पादेन तर्हि प्राप्तिः प्राप्य - तामित्याह । किं पुनरित्यादि । उताहोशब्दः पक्षान्तर