________________
अभिसमयालङ्कारालोकः।
१०८
(p. 28, 13)। यावदित्यनेन समानवयाप्रमाणेषु स्त्रीपुरुषेषु भ्रातभगिनीसंज्ञापरिग्रहः । कथमात्मसंज्ञोत्पादयितव्येत्याह। यथेत्यादि। आहिताहमानत्वेन स्वसन्तान एवात्मा। सर्वदुःखेभ्यः संस्कारादिदुःखेभ्यो मोचयितव्योऽपनेतव्यः। प्रकारान्तरमप्याह। एवञ्चेत्यादि । न परित्यक्तव्या महाकरुणाशयप्रयोगेण परिमोचयितव्यास्तथाभूतकार्यसम्पादनतः। चित्तप्रदोषो देषो नोत्पादयितव्यः । कदेत्याह। अन्तश (p. 28, 20) इत्यादि। अन्तशः पर्यवसाने शतशोऽपि स्वकायेन छिद्यमानेन तैरेवेत्यध्याहार्य परार्थकोऽतिशयः स्यात्। तदेव निगमयन्नाह। एवं होत्यादि। एवञ्चित्तोऽनन्तरोक्तचित्तः। चरिष्यति दानादिचर्याम् । विहरिष्यति चतुर्षपौर्यापथेषु। एवं संशतिसत्याश्रयेण चर्याया या न दुष्करसंज्ञेति प्रतिपाद्य परमार्थसत्याश्रयेण प्रतिपादयन्नाह । पुनरपरमित्यादि। सर्वेण प्रत्यक्षादिप्रमाणेन सर्व व्यापौतरहा रूपम् । सर्वथा सत्त्वजौवादिप्रसिद्धिप्रकारैः पुनः सर्वमिति कर्तृत्वादिरूपम्। एकानेकस्वभाववैधूर्याद्यथात्मा न विद्यते। अत एव नोपलभ्यते । तथा सर्वधर्माः। तदेव कथयन्नाह। एवमित्यादि (p. 29, 2) धर्मेषु तु सर्वेण स्वलक्षणादिरूपेण सर्वं वाक्यादिकं सर्वथा क्लिष्टत्वादिप्रकारेण सर्वं सर्वप्रकारम् । अतो गत्यन्तराभावान्मायापुरुषेण वा चरितव्यम् । तच च कथं दुष्करचर्येति भावः । एवमनुत्पादेतिप्रसङ्गं परिहृत्याभ्युपगममाह। यदपीत्यादिना । एवमेवैतत् परमार्थे नेति भावः। बोधिसत्त्वोऽनुत्पाद इति वचनात् । प्रादेशिको शून्यते