________________
प्रथमपरिवर्तः ।
रूपाद्यनुत्पादाव्यययोरइयत्वं तस्मात् कारणात् । यथाभाषितस्य न रूपमुंपैतीत्यादिवचनस्यार्थमाजानामि। तथा बोधिसत्त्वोऽप्यनुत्पादस्तस्यापि रूपादिस्वभावत्वात् । भवत्वेवमित्यभ्युपगमे दोषार्थमाह । यदि चेत्यादि । किंशब्दः क्षेपेऽनुत्पादविरुड्वत्वान्नैव चरतीत्यर्थः। यानि दःखानि सत्त्वानां कृतशः प्रयोजनेन प्रत्यनुभवितुमुत्सहते। किमर्थं वा तानि नैवेत्यर्थः। सत्त्वाद्यभावादिति भावः। नाहमि(p. 28, 7)त्यादिनोत्तरमाह। एवं मन्यते । यदि बोधिसत्त्वोऽनुत्पादः। परमार्थतो नैव दुष्करचयां चरतीत्यापद्यते । तदा तत्त्वेन चर्यानुपपत्तेः सिद्धसाध्यता। अथ मंस्त्या तदा नानुत्पादस्तहि बोधिसत्त्वस्तस्योत्पादप्रतिपादनात्तत्कथं चर्याविरुद्धेति । संस्त्यापि दष्करचर्या कथं चर्यत इत्यपि न मन्तव्यमित्याह । नापौत्यादि। दष्करमंज्ञया चरतीत्यत्र दष्करचर्यामिति शेषः । ननु शिरोदानादिदष्करचयां बोधिसत्त्वा एव कुर्वन्तौति कथं न दष्करसंज्ञेति। तत्कस्य हेतोरित्याशङ्कयाह । नहोत्यादि। यस्माद्दुष्करसंज्ञां जनयित्वा न शक्यः सत्त्वानामर्थः कतुं सम्यक्चर्याऽनिष्यत्तेरतो यो दष्करसंज्ञां दानादिचर्यासु करोति स सत्त्वाकरणेन बोधिसत्त्वो न भवतीति भावः । कथं तर्हि शक्यते इत्याह । अपि त्वित्यादि। दानादिषु मात्सर्याद्यभावेन सुकरसंज्ञां सुखसंज्ञां तथा मत्त्वानामन्तिके सामान्येन मात्रादिसंज्ञाविशेषेण वा स्त्रीपुरुषेषु वयसा वन्यूनप्रमाणेषु यथासम्भवं मात्रादिसंज्ञां कृत्वा यदि बोधिसत्त्वश्चयां चरति तदार्थः शक्यते कर्तुमिति भावः। तदेवोपसंहरन्नाह। तस्मादित्यादि