________________
अभिसमयालङ्कारालोकः ।
१०७
रित्याशङ्कयाह । यस्मिन्नित्यादि (p. 26. 13) । यस्माद्यस्मिन् काले रूपादौनिमान्धर्मान् प्रज्ञापारमितायां तन्निमित्तं व्यपपरीक्षते नैःस्वभाव्याकारेण तस्मात्तस्मिन् काले न रूपमुपैति न प्रतिपद्यते। अतो नोपगच्छति न स्वीकरोति। यतो नोत्पादं न निरोधं वा ममनुपश्यति । उत्पादव्ययनिर्मुक्तस्यान्यस्यासत्त्वादिति भावः । न त्वैकात्म्येऽनुत्पादानिरोधोपलम्भ एव रूपोपलम्मोऽतः कथं न रूपमुपैतीति। तत्कस्य हेतोरित्याशङ्याह । तथाहौत्यादि (p. 26, 21) । यस्माद्यावनुत्पादाव्ययौ न तौ रूपं संस्त्या रूपस्यैव प्रतिभामनात्। तत्र भाव एव क्षणस्तिथिधर्मा नाशो व्ययस्तत्प्रतिषेधादव्ययः। यतः मंहत्या नानात्वमिति। तस्मादनुत्पादाव्ययौ रूपं च परमार्थतोऽनुत्पादाव्ययस्यैव स्थितेरयमनुत्पादाघेकरूपमेतत्। यतोऽवैधौकारमपगतविधाभावकारकप्रमाणम् । यद्येवं कथं पुना रूपव्यपदेश इत्याह । यत्पुनरित्यादि (12. 27. 1) । अद्दयस्य न्यायेनानुत्पादादिरूपस्यैषा रूपमित्युद्भावना संस्त्या गणना संज्ञा कृता सङ्केतिता। सर्वाकारज्ञताऽधिगमेन विना न प्राप्तिनिर्याणमिति तदनु सर्वाकारज्ञतानिर्याणं दर्शयितुमाह । एवं भगवन्नित्यादि (p. 27. 7)। एवं सर्वाकारमिति सम्बन्धः। प्रज्ञापारमितायां सर्वाकारज्ञतायां निर्यातुमिति शेषः । सर्वाकारं नै स्वभाव्याद्याकारं क्रियाविशेषणमेतत्। सर्वधर्मान रूपादौन व्यपपरीक्षमाणस्तस्मिन् समयेऽभिसमयकाले न रूपमुपैतीत्यादिप्रसङ्गान्तरेण पुनरावर्तितमिति न पुनरुक्ततादोषः। एवं सति सत्त्वार्थदःखचर्याद्यनुपपत्तिरित्यभिप्रायवानाह । तेन होत्यादि (p. 28, 1)। यतो