________________
१०६
प्रथमपरिवर्तः ।
इति न्यायाद्यथावस्तु तन्नामधेयमनभिनित्तत्वान्नोत्पन्नम्। किमिवेत्याह। यथा आत्मेति । तदेव कथयति।
आत्मत्यादिना। अर्थक्रियाऽसमर्थत्वात् खरविषाणवत्तस्य मंस्त्याप्यनभिनित्तत्वेनात्यन्ततया नास्त्यात्मा। अथ चात्मेति व्यपदेशः । यद्येवं न्यायेनास्वभावत्वे सर्वधर्माणां कतमत्तद्रूपमित्याशंक्याह। यदित्यादि। यस्मादनभिनिवृत्तं तस्माद्वाह्यग्राहकभावविगतं तत्त्वेन तदविचारैकमनोहरं मंत्या रूपम् । एवं ग्राह्यग्राहकभावेनानभिनिर्दृत्तिम्तर्हि पारमार्थिको धर्म इत्याह। एवमित्यादि (p. 26, 1) न्यायेनैषां सर्वधर्माणामस्वभावता या सैवानभिनि:त्तिर्या चानभिनि:त्तिः स्वरूपधारणवैकल्यान्न ते धर्माः। प्रसाधितमर्थं निगमयन्नाह । तदित्यादि (p. 26, 5)। तत्तस्मात् किंशब्दस्य क्षेपाभिधायित्वान्नैवेत्यर्थः । अभिनित्तिस्तहि धर्म इत्याह । न चान्यत्रेत्यादि। सर्ववस्तुनोऽभिनित्ते. प्रतिषिद्धत्वादनभिनित्तितोऽन्यत्रापि निवृत्तौ धर्मो नैवोपलभ्यते। सर्वधर्माः प्रज्ञापारमितामार्गस्वभावाः । बुद्धधर्माः प्राप्यलक्षणाः। बोधिसत्त्वधर्माः प्रापकबोधिसत्त्वप्रज्ञप्तिनिबन्धना रूपादयः । यो वाऽन्यः कश्चित् सामान्यधर्मो बोध्यर्थं चरेत् स नैवोपलभ्यत इति विभक्तिविपरिणामेन मम्बन्धः। कः पुनरेवं प्रज्ञापारमितायामभियुक्त इत्याह। स चेदित्यादि। चरत्यसमाहितज्ञानेन, भावयति ममाहितेन । उपपरीक्षते युक्त्या व्यवस्थापयति । स्मरणप्रत्यये ऽवस्थापनादपनिध्यायति । ननु रूपाद्युपलम्मेन कथं प्रज्ञापारमितामुपपरीक्षत इति । तत् कस्य हेतो