________________
अभिसमयालवारालोकः ।
१०५
लम्भाभाव इति भावः। यद्येवमनुपलम्भस्तहि तत्त्वमित्याह इदमित्यादि। इदमपि नोपैतीत्यपि न विद्यते। निर्विषयस्य नत्रोऽप्रयोगादतो वस्तुतोऽसत्त्वान्नोपलभ्यते। सामान्येन निर्दिश्यैवमात्मानमधिकृत्याह। एवं भगवन्नित्यादि (p 25, 12)। एवमिति प्राप्यप्रापकप्रतिषेधेन “हे ह्यम् सर्वते वस्तुसर्वता। आकारसर्वता चे”ति न्यायात्। तत्र सर्वेणेति स्कन्धादिवस्तुरूपेण । सर्वमिति बाह्याध्यात्मिकवस्तुस्वभावम् । सर्वथेति अध्यात्मशून्यतादिभिराकारप्रकारैः । पुनः सर्वमिति व्यस्तसमस्तप्रकारम् । बोधिसत्त्वधर्ममिति । बोधिसत्त्व एव प्राप्यमापकलक्षणो धर्मो रूपादिस्वभावस्तमनुपलभमानः सन्। तदभयसम्बन्धप्रतिषेधमाह । प्रजेत्यादिना । साकारनिराकारज्ञानाभ्यां यथासङ्ग्यं न समनुपश्यामि नोपलभे। प्रत्यक्षानुमानाभ्यां वा। तत्प्रतिपादनार्थमेवाह। सर्वज्ञतामिति। उपसंहरन्नाह । सोऽहमित्यादि। कतमं प्रापकं बोधिसत्त्वं कतमेन प्राप्योपायमुखेन कतमस्मिन् सम्बन्धे सर्वाकारज्ञतालक्षणे किंशब्दस्य क्षेपाभिधायित्वात् । नैव कञ्चित् केनचित् क्वचिदित्यर्थः । कुतो यस्मात् बुद्ध इत्यादि। प्राप्योऽत्र बुद्धशब्देनोक्तः । प्रापकसम्बन्धस्योत्तरपदद्दयेनाभिधानाद्यतो यदेव प्रक्रान्तं तदेवोपसंहियते । यथावस्तुशब्दप्रयोगेण संज्ञामात्रसद्भावात् सत्यं वस्तु स्यादित्याह । तच्चेत्यादि (p. 25, 20) ।
नार्थशब्दविशेषस्य वाच्यवाचकतेष्यते । तस्य पूर्वमदृष्टत्वात् सामान्यं तूपदेक्ष्यते ॥
14