________________
प्रथमपरिवर्तः ।
चयप्रतिविशिष्टावस्थाप्राप्तिं विना न सम्पद्यत इत्यतोऽनन्तरं प्राप्तिनिर्याणमाह । अत्र च शिक्षित्वेत्यादिना । अत्रेति महायाने । सर्वज्ञता यानचयात्मिका । सर्वार्यपुद्गलाधिगमहेतुत्वज्ञापनार्थमनुप्राप्तेत्यभिधानम् । शब्दान्यथात्वजनितविभ्रमादार्य पूर्णोऽयमित्याह । प्रज्ञापारमितायाः कृतशः प्रयोजनेन प्रतिभातु त इत्यादिना प्रारम्भ स्वाधीष्टो नित्यसमन्वाहारमन्तरेण ज्ञानदर्शनासम्भवादन्यथापि स्यादित्यार्यसुभूतिराह । नाऽहं भगवन्नित्यादि (p. 25, 1 ) । व्यतिक्रम्येत्युत्वंध्य तथागताधिष्ठितस्य विपरीतदेशनानुपपत्त्या नो हौदमित्याद्याह । अनुलेोमेति । अनुकूलं प्रज्ञापारमितार्थस्य महायानस्वभावत्वादिति भावः । सर्वाकारगम्भौरधर्मदेशनाशक्तिमात्मनोऽपश्यन्नाह । बुड्डानुभावाद्भगवन्निति । तच्च प्राप्तिनिर्याणं प्राप्यप्रापकतदुभयसम्बन्धप्रतिषेधलक्षणम् । अतः प्राप्यप्रतिषेधमधिकृत्याह । अपि त्वित्यादि । अपि तुशब्दः क्रमार्थः । श्रद्यादित्वेन सप्तम्यन्तात्तसिः । पूर्वान्तत इत्यादौ ज्ञेयः । नोपैतौति बोधिसत्त्वं कश्चित् प्राप्यं रूपादिस्वभावमिति शेषः । तस्यैव प्राप्यत्य बोधिसत्त्वस्याविद्यमानत्वादिति भावः । ननु रूपादिप्रतिभासो बोधिसत्त्वः कथमविद्यमान इति तत्कस्य हेतोरित्याशङ्क्याह । रूपापर्यन्ततयेत्यादि (p. 25, 8) । “धर्मधातुविनिर्मुक्तो यस्माद्धर्मो न विद्यते " ।
इति न्यायावर्मधातुवत्तत्स्वभावोभूतानां यस्माद्रूपादौनामपर्यन्ततया बोधिसत्त्वापर्यन्तता तस्माद्बोधिसत्त्वं नोपैतौति भावः । प्रापकप्रतिषेधमधिकृत्याह । रूपमित्यादि । रूपादीनां न्यायेनासत्त्वात्तदात्मकप्रापकबोधिसत्त्वोप
१०४