________________
पभिसमयालकागलोकः ।
१०३
मदेवमानुषासुरं लोकं तत्प्रतिपक्षत्वेनासत्यार्थतया स्वरूपपरिज्ञानादभिभवाद्यस्मान्निश्चयेन गन्तव्यं स्थानं सर्वमत्त्वाग्रतादिमहत्त्वं यास्यतीति तस्मान्महायानमुच्यत इति वाक्यार्थः । समताधिगममन्तरेणोद्देशनिर्याणासम्भव इति। तदनन्तरं समतानिर्याणं दर्शयितुमाह। आकाशेत्यादि (p. 24. 7)। आकाशमिव ममतया शून्यतया सकलज्ञेयमण्डलव्यापिनिर्मलज्ञानत्वान्महत्तद्यानम्। मत्त्वार्थमन्तरेण पुण्योपचयाभावान्न समतावगमनं सम्यगिति तदनु मत्त्वार्थनिर्याणमाह । यथेत्यादिना । महायाने मत्त्वाना मवकाश इति वचनात्तेन महायानेन तेषामर्थो निर्यातव्य इत्यावेदितमन्यथाऽर्थक्रियाशून्यत्वेनावकाशानुपपत्तेः । अनेनेत्याद्यपसंहारः। पर्यायेणार्थान्तरेणानेन । आभोगे मत्यविकलसत्त्वार्थो न निष्पद्यत इत्यतोऽनन्तरमनाभोगनिर्यागं वक्तमाह। नैवास्येत्यादि। आगमोऽतौतात् निर्गमोऽनागते, स्थानं वर्तमाने। आगमाद्यभावादयत्नमिदं निर्याणमिति भावः। शाश्वतोच्छेदरहितावस्थाधिगमं विनाऽनाभोगनिर्याणं न भवतीत्यतोऽनन्तरमत्यन्तनिर्याणं दर्शयितुमाह। एवमस्येत्यादि (p. 24. 11)। एवमिति वक्ष्यमाणक्रमेण । पूर्वान्तः शाश्वतः । उच्छेदोऽपरान्तः । तहिनिर्मुक्तोऽन्योऽपि नास्तौत्याह । नापि मध्य इति । एवमिति यदक्तं तत्कथयन्नाह । व्यध्वेत्यादि। यस्मात् प्रकृतिपरिनिईतत्वेन सर्वधर्माणां यध्वशून्यं तद्यानं तस्मान्महायानत्वेन पूर्वान्तत्वाद्यभाव इति वाक्यार्थः । धर्मताऽविरुद्धार्थकथनात् साधुकारमावेदयन्नाह । साध्वित्यादि। उपसंहरन्नाह । एवमित्यादि। अत्यन्तनिर्याणमपि यान