________________
१०२
प्रथमपरिवर्तः ।
यश्चेत्यादि। उभाविति । यो बोधिसत्त्वो येन च मार्गेण निर्यायात् तौवेतौ तत्त्वेनोपसंहरन्नाह। एवमित्यादि (p. 24, 1)। संत्या त्वस्तौति भावः । तथाचोक्तम् ।
प्रतिपक्षोऽष्टधा ज्ञेयो दर्शनाभ्यासमार्गयोः । ग्राह्यग्राहकविकल्पानामष्टानामुपशान्तये ॥७२॥ इति
यथोक्तानुपूर्व्या संशतिपरमार्थसत्यानतिक्रमेण समस्तमहायानानुष्ठानेन संहियते। समुदागमभावेन महाबोधिरेभिः करुणादिभिरिति करुणादयः सम्भारा इति मप्तदशप्रकारा मम्भारप्रतिप्रत्तिः। सम्भृतसम्भारस्यैवमजितजयप्राप्त्या निर्याणमिति निर्याणप्रतिपत्तिश्चतुर्था वक्तव्या। सा पुनर्विषयभेदेनाष्टधेत्यादौ प्राधान्याद्देशनिर्याणम् । तत्पुनः सर्वसत्त्वाग्रताचित्तमहत्त्वनिर्याणम् । प्रहाणमहत्त्वनिर्याणम् । अधिगममहत्त्वनिर्याणञ्चेति विविधम् । अतस्त्रिविधोद्देशनिर्याणमधिकृत्याह। महायानमित्यादि।
आलम्बनमहत्त्वञ्च प्रतिपत्त्योईयोस्तथा। ज्ञानस्य वौर्यारम्भस्य उपायकौशलस्य च ॥ उदागममहत्त्वञ्च महत्त्वं बुद्धकर्मणः । एतन्महत्त्वयोगाद्धि महायानं निरुच्यते ॥ इति सप्तविधमहत्त्वयोगान्महायानं सफलो बोधिसत्त्वमार्गः लोकप्रमिद्धमावस्यैवायथार्थाभिसम्बोधिफलं महायानम् । तस्यैव बन्धत्वादितरथा हि महायानस्य प्रतिपक्षभावनावैयर्थं स्यात्। अतोऽभूतपरिकल्पमाचत्वादितथप्रख्यातिरूपं